वाचस्पत्यम्
वाञ्छा || स्त्री वाछि—अ । इच्छायाम् इष्टसाधनताधीजंन्ये- ऽभीष्टविषये चित्तवृत्तिभेदे अमरः ।
शब्दकल्पद्रुमः
वाञ्छा || स्त्री (वाञ्छनमिति । वाछि इच्छायाम् । गुरोश्चेत्यः । टाप् ।)
आत्मवृत्तिगुणविशेषः । सा च द्विविधा यथा । उपायविषयिणी फल- विषयिणी वा । फलं सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । उपायेच्छां प्रति इष्टसाधनताज्ञानं कारणम् । इति सिद्धान्तमुक्तावली ॥ तत्पर्य्यायः । इच्छा २ काङ्क्षा ३ स्पृहा ४ ईहा ५ तृट् ६ लिप्सा ७ मनोरथः ८ कामः ९ अभिलाषः १० तर्षः ११ । इत्यमरः । १ । ७ । २७ ॥ आकाङ्क्षा १२ कान्तिः १३ अग्रचयः १४ दोहदः १५ आभिलाषः १६ । इति शब्दरत्नावली ॥ रुक् १७ रुचिः १८ मतिः १८ दोहलम् २० छन्दः २१ । इति जटाधरः ॥ (यथा, कथासरित्सागरे । ११ । २७ । “सन्दिदेश च यद्यस्ति वाञ्छा मच्छिष्यतां प्रति । त्वत्पुत्र्यास्तदिहैवैषा भवता प्रेष्यतामिति ॥”)