संस्कृत-शब्दकोशः

वाढ वाणगङ्गा

वाण

वाचस्पत्यम्

वाण is an alternate of बाण. बा(वा)ण ||‍ पु० बण—शब्दे वण—गतौ वा संज्ञाबां कर्त्तरि घञ् । १ शसे, २ गोस्तने, (वांट) ३ विरोचनसुते ४ दैत्यभेदे, ५ केवले च ६ शरपुत्रे ७ नीलझिण्ठ्याम् पुंस्त्री० अमरः ८ बाणमूले स्त्री मेदि० । मेदिन्यां दन्तोष्ठ्यवादित्वेन पठितः रायमुकु- टादवस्त बण शब्दे इति पातुप्रकृतिकत्वमाहुरतोऽस्वो- भयविधादित्वम् बल—भावे घञ् । ९ शब्दे १० तदथि- तदधिष्ठातृदेव्यां सरस्वत्यां स्त्री उपचारात् ११ वाक्ये अमरः ।


वाचस्पत्यम्

वाण ||‍ पु० वण—घञ् । १ शरे अमरः २ गवां स्तने ३ दैत्यभेदे ४ केवले मेदि० ५ वह्नौ त्रिका० ६ काण्डावयवे विश्वः ७ भद्रमुञ्जे राजनि० कादम्बरीग्रन्थकारके ८ कविभेदे च “पञ्चवाणस्तु वाणः” इति प्रसन्नराघवम् । ९ नीलझिण्ट्यां पुंस्त्री० अमरः । अस्योष्ठ्यादित्वमिव्यन्ये ।


शब्दकल्पद्रुमः

वाणः is an alternate of बाणः. बा(वा)णः || पुं, (बणनं बाणः शब्दस्तदस्यास्तीति । बाण + अच् ।)
अस्त्रविशेषः । तिर इति भाषा । तत्पर्य्यायः । पृषत्कः २ विशिखः ३ अजिम्भगः ४ खगः ५ आशुगः ६ कलम्बः ७ मार्गणः ८ शरः ९ पत्री १० रोपः ११ इषुः १२ । इत्यमरः । २ । ८ । ८६ ॥ चित्र- पुङ्खः १३ शायकः १४ वीरतरः १५ तूणक्षेडः १६ काण्डः १७ विपर्षकः १८ शरुः १९ वाजी २० पत्रवाहः २१ अस्त्रकण्टकः २२ ॥ लौहमय- वाणस्य पर्य्यायः । प्रक्ष्वेडनः १ लोहनालः २ नाराचः ३ ॥ क्षिप्तबाणस्य पर्य्यायः । प्रहितः १ निरस्तः २ ॥ विषाक्तबाणस्य पर्य्यायः । तीक्ष्णः १ लिप्तकः २ दिग्धः ३ ॥ तीरो निष्फलसायके । इति शब्दरत्नावली ॥ * ॥
(यथा, ऋग्वेदे । ६ । ७५ । १७ । “यत्र बाणाः संपतन्ति कुमारा विशिखा इव । तत्रा नो ब्रह्मणस्पतिरदितिः शर्म्म यच्छतु विश्वहा शर्म्म यच्छतु ॥”)
वलिराजस्य ज्येष्ठपुत्त्रः । यथा, —
“बलेः पुत्त्रशतं त्वासीद्बाणज्येष्ठन्ततो द्विजाः । बाणः सहस्रबाहुः स्यात् सर्व्वास्त्रगुणसंयुतः ॥ तपसा तोषितो यस्य पुरे वसति शूलधृक् । महाकालत्वमगमत् साम्यं यस्य पिणाकिनः ॥” इति मत्स्यपुराणे ५ अध्यायः ॥ (अस्य जन्मादिविवरणन्तु बाणयुद्धशब्दे द्रष्ट- व्यम् । विस्तृतिस्तु हरिवंशे विष्णुपर्व्वणि १७३ अध्यायमारभ्य द्रष्टव्या ॥)
गोस्तनः । केवलः । इति मेदिनी । णे, २७ ॥ अग्निः । इति त्रिकाण्डशेषः ॥ काण्डावयवः । इति विश्वः ॥ भद्रमुञ्जः । इति राजनिर्घण्टः ॥ (पुं, स्त्री, नीलझिण्टी । इति वैजयन्ती ॥ यथा, माघे । ६ । ४६ । “विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥” बण्यते शब्द्यते इति । बण शब्दे + “अकर्त्तरि च कारके संज्ञायाम् ।” ३ । ३ । १९ । इति घञ् । वाक् । इति निघण्टुः ॥ इक्ष्वाकुवंशीयो- ऽयोध्याराजः स्वनामख्यातो विकुक्षेः पुत्त्रः । यथा, रामायणे । १ । ७० । २२ — २३ । “इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विशुतः । कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ॥ विकुक्षेस्तु महातेजा बाणः पुत्त्रः प्रतापवान् । बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥” कादम्बरीप्रणेता कविविशेषः । यथा, कादम्बर्य्यां कविवंशवर्णने । “सरस्वतीपाणिसरोजसम्पुट- प्रमृष्टहोमश्रमसीकराम्भसः । यशोऽंशुशुक्लीकृतसप्तविष्टपात् ततः सुरोबाण इति व्यजायत ॥ द्विजेन तेनाक्षत कण्ठकौण्ठ्यया महामनोमोहमलीमसान्धया । अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्ध्वेयमतिद्वयी कथा ॥” अयमेव हर्षचरितप्रणेता इति केचित् ॥)



Correction: