संस्कृत-शब्दकोशः

वाणभट्ट वाणलिङ्ग

वाणयुद्धं

शब्दकल्पद्रुमः

वाणयुद्धं is an alternate of बाणयुद्धं. बा(वा)णयुद्धं || क्ली (बाणेन सह युद्धम् ।)
बाण- राजेन सह श्रीकृष्णस्य संग्रामः । तस्य विव- रणम् । यथा, — श्रीशुक उवाच । “बाणः पुत्त्रशतज्येष्ठो बलेरासीन्महात्मनः । सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ भगवान् सर्व्वभूतेशः शरण्यो भक्तवत्सलः । वरेण च्छन्दयामास स तं वव्रे पुराधिपम् ॥ स एकदाह गिरिशं पार्श्वस्थं वीर्य्यदुर्म्मदः । किरीटेनार्कवर्णेन संस्पृशंस्तत्वदाम्बुजम् ॥ नमस्ये त्वां महादेव ! लोकानां गुरुमीश्व- रम् । पुंसामपूर्णकामानां कामपुरामराङ्घिपम् ॥ दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ कण्डूत्या निभृतैर्दोभिर्यु युत्सुर्दिग्गजानहम् । आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥ तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा । तद्दर्पघ्नं भवेन्मूढ ! संयुगं मत्ममेन ते ॥ इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ! । प्रतीक्षन् गिरिशादेशं स्ववीर्य्यनशनं कुधीः ॥ तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा ॥ सा तत्र तमपश्यन्ती क्वासि कान्तेतिवादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥ कं त्वं मृगयसे ! सुभ्रु ! कीदृशस्ते मनोरथः । हस्तग्राहं न तेऽद्यापि राजपुत्त्र्युपलक्षये ॥ ऊषोवाच । दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः । पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः ॥ तमहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ चित्रलेखोवाच । व्यसनन्तेऽपनेष्यामि त्रिलोक्यां यदि भाव्यते । तमानेष्ये वरं यस्ते मनोहर्त्ता तमादिश ॥ इत्युक्त्वा देवगन्धर्व्वसिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ मनुजेषु च सा वृष्णीञ्छू रमानकदुन्दुभिम् । व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते ! ॥ चित्रलेखा तमाज्ञाय पौत्त्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् ! द्बारकां कृष्णपालि- ताम् ॥ तत्र सुप्तं सुपर्य्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ सा च तं सुन्दरवरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुंभी रेमे प्राद्युम्निना समम् ॥ परार्द्ध्यवासः स्रग्गन्धधूपदीपासनादिभिः । पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषणार्च्चितः ॥ गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया । नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ तां तथा यदुवीरेण भुज्यमानां हतत्रपाम् । हेतुभिर्लक्षयाञ्चक्रुराप्रीतां दुरवच्छदैः ॥ भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्व्वयम् । विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥ अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ! । कन्याया दूषणं पुंभिर्दुष्प्रेक्षाया न विद्महे ॥ ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः । त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम् ॥ कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् । बृहद्भुजं कुण्डलकुन्तलत्विषा स्सितावलोकेन च मण्डिताननम् ॥ दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् । बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः ॥ स तं प्रविष्टं व्रतमाततायिभि- र्भटैरनेकैरवलोक्य माधवः । उद्यम्य मौर्व्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥ जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत् । ते हन्यमाना भवनाद्बिनिर्गता निर्भिन्नमूर्द्धोरुभुजाः प्रदुद्रुवुः ॥ तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं रुषितो बबन्ध ह । ऊपा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौत्सीत् ॥” इति श्रीभायवते महापुराणे पारमहंस्यां संहि- तायां वैयासिक्यां दशमस्कन्धे बाणयुद्धे द्बिषष्टि- तमोऽध्यायः ॥ * ॥
श्रीशुक उवाच । “अपश्यताञ्चानिरुद्धं तद्बन्धूनाञ्च भारत ! । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ नारदात्तदुपाकर्ण्य वार्त्तां बद्धस्य कर्म्म च । प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः ॥ प्रद्युम्नो युयुधानश्च गदः शाम्बोऽथ शारणः । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्त्तिनः ॥ अक्षौहिणीभिर्द्वादशभिः समेताः सर्व्वतो दिशम् । रुरुधुर्ब्बाणनगरं समन्तात् सात्वतर्षभाः ॥ भज्यमानपुरोद्यानप्रकाराट्टालगोपुरम् । प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ वाणार्थं भगवान् रुद्रः ससुतः प्रमथैर्वृतः । आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥ आसीत् सुतुमुलं युद्धमद्भुतं लोमहर्षणम् । कृष्णशङ्करयो राजन् ! प्रद्युम्नगुहयोरपि ॥ कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगम् । शाम्बस्य बाणपुत्त्रेण बाणेन सह सात्यकेः ॥ ब्रह्मादयः सुराधीशाः मुनयः सिद्धचारणाः । गन्धर्व्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ शङ्करानुचराञ्छौरिर्भूतप्रमथगुह्यकान् । डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ भूतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् । द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ पृथग्दिव्यानि प्रायुङ्क्त पिणाक्यस्त्राणि शार्ङ्गिणे । प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥ ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्व्वतम् । आग्नेयस्य च पार्ज्जन्यं नैजं पाशुपतस्य च ॥ मोहयित्वाथ गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर्ज्जघानासिगदेषुभिः ॥ स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः । असृग्विमुञ्चन् गात्रेभ्यः शिखिना प्राद्रवद्रणात् ॥ कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्द्दितौ । दुद्रुवुस्तदनीकानि हतनाथानि सर्व्वशः ॥ वीशीर्य्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षितः । कृष्णमभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम् ॥ धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै । एकेकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्म्मदः ॥ तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः । सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ तन्माता कोट्टवी नाम नग्ना मुक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्त्रप्राणरिरक्षया ॥ ततस्तिर्य्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः । बाणश्च तावद्बिरथश्छिन्नधब्बाविशत् पुरम् ॥ विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् । अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ अथ नारायणो देवस्तं दृष्ट्वा व्यसृजत् ज्वरम् । माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्द्दितः । अलब्ध्वा भयमन्यत्र भीतो माहेश्वरो ज्वरः ॥ शरणार्थी हृषीकेशं तुष्टाव प्रणताञ्जलिः ॥ ज्वर उवाच । नमामि त्वानन्तशक्तिं परेशं सर्व्वात्मानं केवलं ज्ञप्तिमात्रम् । विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ कालो दैवं कर्म्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्सं घातो बीजरोहप्रवाह- स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ नानाभावैर्लीलयैवोपपन्नै- र्देवान् साधूँल्लोकसेतून् बिभर्षि । हंस्युन्मार्गान् हिंसया वर्त्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥ तप्तोऽहन्ते तेजसा दुःसहेन शान्तोग्रेणात्युल्वणेन ज्वरेण । तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन् यावदाशानुबद्धाः ॥ श्रीभगवानुवाच । त्रिशिरस्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य त्वन्नो भवेद्भयम् ॥ इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः । बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्द्द- नम् ॥ ततो बाहुसहस्रेण नानायुधधरो नृपः । मुमोच परमक्रुद्धो वाणांश्चक्रायुधे नृप ! ॥ तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना । चिच्छेद भगवान् बाहूंश्छाखा इव वनस्पतेः ॥ बाहुषु च्छिद्यमानेषु बाणस्य भगवान् भवः । भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ श्रीरुद्र उवाच । त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये । यं पश्यन्त्यमलात्मानमाकाशमिव केवलम् ॥ नाभिर्नभोऽग्निर्म्मुखमम्बुरेतो द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्व्वी । चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः ॥ रोमाणि यस्यौषधयोऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः । प्रजापतिर्हृदयं यस्य धर्म्मः स वै भवान् पुरुषो लोककल्पः ॥ तवावतारोऽयमकुण्ठधामन् धर्म्मस्य गुप्त्यै जगतो भवाय । वयञ्च सर्व्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ त्वमेक आद्यः पुरुषोऽद्वितीय- स्तुर्य्यः सदृग्धेतुरहेतुरीशः । प्रतीयसेऽथापि यथा विकारं स्वमायया सर्व्वगुणप्रसिद्ध्यै ॥ यथैव सूर्य्यः पिहितः स्वच्छायया छायाञ्च रूपाणि च सञ्चकास्ति । एवं गुणेनापिहितो गुणांस्त्व- मात्मप्रदीपो गुणिनश्च भूमन ॥ यन्मायामोहितधियः पुत्त्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्म- वञ्चकः ॥ यस्त्वां विसृजते मर्त्य आत्मानं प्रियमी श्वरम् । विपर्य्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजेत् ॥ अहं ब्रह्माथ बिबुधा मुनयश्चामलाशयाः । सर्व्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥ तं त्वां जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् । अनन्यमेकं जगदात्मकेतुं भवापवर्गाय भजाम देवम् ॥ अयं ममेष्टो दयितोऽनुवर्त्ती मयाभयं दत्तममुष्य देव ! । सम्पाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः ॥ श्रीभगवानुवाच । यदात्थ भगवंस्तन्नः करवाम प्रियन्तव । भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥ अवध्योऽयं ममाप्येष वैरोचनसुतोऽसुरः । प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ दर्पोपशमनायास्य प्रकृत्ता बाहवो मया । सूदितञ्च बलं भूरि यच्च भारायितं भुवः ॥ चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः । पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः ॥ इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथमारोप्य स बध्वा समुपानयत् ॥ अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् । सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ स राजधानीं समलड्कृतां ध्वजै- र्मनोरमैर्भूषितमार्गचत्वराम् । विवेश शङ्खानकदुन्दुभिस्वनै- रभ्युद्यतः पौरसुहृद्द्विजातिभिः ॥ य एतत् कृष्णविजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः ॥” इति श्रीभागवते महापुराणे पारमहंस्यां संहितायां वैयासिक्यां दशमस्कन्धे बाणासुर- संग्रामे श्रीकृष्णविजयस्त्रिषष्टितमोऽध्यायः ॥



Correction: