संस्कृत-शब्दकोशः

वाणयुद्धं वाणवार

वाणलिङ्ग

वाचस्पत्यम्

वाणलिङ्ग is an alternate of बाणलिङ्ग. बा(वा)णलिङ्ग ||‍ वाणदैत्येन संपू आवसृज्य नर्मदायां निक्षिप्ते शिवलिङ्गभेदे । नर्मदासम्भवशब्दे ३९८७ पृ० विवृतिः ।


शब्दकल्पद्रुमः

वाणलिङ्गं is an alternate of बाणलिङ्गं. बा(वा)णलिङ्गं || क्ली (बाणार्च्चनार्थं कृतं लिङ्गम् । अन्यास्य निरुक्तिरुक्ता हेमाद्रौ । यथा, —
“बाणः सदाशिवो देवो बाणो बाणान्तरो- ऽपि च । तेन यस्मै कृतं तस्माद्वाणलिङ्गमुदाहृतम् ॥”)
नर्म्मदानद्युद्भवशिवलिङ्गम् । तस्य विवरणम् । यथा, —
“नर्म्मदाजलमध्यस्थं बाणलिङ्गमिति स्मृतम् । बाणलिङ्गे स्वयम्भूते चन्द्रकान्ताह्वयं स्थितम् ॥ चान्द्रायणशतं कार्य्यं शम्भोर्नैवेद्यभक्षणात् । ग्राह्याग्राह्यविभागोऽयं बाणलिङ्गे न विद्यते । तदर्पितं जलं वान्नं ग्राह्यं प्रसादसंज्ञया ॥ शिवनाभमयं लिङ्गं सदा पूज्यं महर्षिभिः । यतश्च सर्व्वलिङ्गेभ्यस्तद्धि पूज्यतमं मतम् ॥ चतुरङ्गुलमुच्छ्रायं रम्यं वेदिकया युतम् । उत्तमं लिङ्गमाख्यातं पञ्चसूत्र सुसाधितम् ॥ तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमवरं स्मृतम् । तस्य न्यूनं पूजनीयं न कदापि न तत्फलम् ॥ रुद्राक्षं शिवलिङ्गञ्च स्थूलस्थूलं प्रशस्यते । शालग्रामो नार्म्मदञ्च सूक्ष्मसूक्ष्मो विशिष्यते ॥” पार्थिवादिलिङ्गापेक्षया बाणलिङ्गस्य श्रेष्ठत्वम् यथा, —
“कोमलेषु तु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते । कठिनेषु तु पाषाणं पाषाणात् स्फाटिकं परम् ॥ स्फाटिकात् पद्मरागञ्च काश्मीरं पद्मरागतः । काश्मीरात् पुष्परागोत्थमिन्द्रनीलोद्भवं ततः ॥ इन्द्रनीलाच्च गोमेदं गोमेदाद्बिद्रुमोद्भवम् । विद्रुमान्मौक्तिकं श्रेष्ठं तस्मात् श्रेष्ठन्तु राजतम् ॥ हैरण्यं राजतात् श्रेष्ठं हैरण्याद्धीरकं वरम् । हीरकात् पारदं श्रेष्ठं बाणलिङ्गं ततः परम् ॥” इति मेरुतन्त्रे ९ प्रकाशः ॥ अथ बाणलिङ्गलक्षणम् । वीरमित्रोदयधृत- कालोत्तरे । “बाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् । उत्पत्तिं बाणलिङ्गस्य लक्षणं शेषतः शृणु ॥ नर्म्मदादेविकायाश्च गङ्गायमुनयोस्तथा । सन्ति पुण्यनदीनाञ्च बाणलिङ्गानि षण्मुख ! ॥ इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि च । सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः । इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च ॥” इतीन्द्रलिङ्गलक्षणम् ॥ “आरुणं हित्यकीलालमुष्णस्पर्शं करोत्यलम् । आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम् । इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत् ॥” इत्याग्नेयलिङ्गलक्षणम् ॥ “दण्डाकारं भवेद् याम्यमथवा रसनाकृति । यद्यदुक्तं सह तैर्न निर्निक्तं ज्ञायते तदा । निषिक्तं निधनन्तेन क्रियते स्थापितेन तु ॥” इति याम्यलिङ्गलक्षणम् ॥ “राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् । कर्करादिप्रलिप्तन्तु कुण्ठकुक्षियुतं तथा । राक्षसं निष्कृते लिङ्गं गार्हस्थे न सुखप्रदम् ॥” इति नैरृ तलिङ्गलक्षणम् ॥ “वारुणं वर्त्तुलाकारं पाशाङ्कं चालिवर्च्चसम् । वृद्धिं सुखादेर्वैस्वत्वसंभोगाप्तन्तु मध्यगे ॥” इति वारुणलिङ्गलक्षणम् ॥ “कृष्णं धूम्रं नवारुच्यं ध्वजाभं ध्वजमूषलम् । मस्तके स्थापितं तस्य न्यूनन्यूनमितस्ततः ॥” इति वायुलिङ्गलक्षणम् ॥ “तूणपाशगदाकारं गुह्यकेशस्य मध्यगम् ॥” इति कुवेरलिङ्गलक्षणम् ॥ “दिनं वाप्यथवा रात्रिं शस्यावृद्धिकरैर्ब्बलम् । अस्थिशूलाङ्कितं रौद्रं हिमकुण्डलवर्च्चसम् ॥” इति रौद्रलिङ्गलक्षणम् ॥ “चतुर्व्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः । वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम् श्रीवत्सकौस्तुभाङ्कञ्च सर्व्वसिंहासनाङ्कितम् । वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम् ॥ वैष्णवं नाम तत् प्रोक्तं सर्व्वैश्वर्य्यफलप्रदम् ॥” इति वैष्णवलिङ्गलक्षणम् ॥ “शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम् । पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये ॥” इत्यपि वैष्णवलिङ्गलक्षणम् ॥ हेमाद्रिधृतलक्षणकाण्डे । नारद उवाच । “अथ वक्ष्यामि ते विप्रचिह्नमेकादशं परम् । श्रवणाद्यस्य पापानि नाशमायान्ति तत्- क्षणात् ॥ मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् । स्वयम्भुलिङ्गमाख्यातं सर्व्वसिद्धैर्निषेवितम् ॥ नानावर्णसमाकीर्णं जटाशूलसमन्वितम् । मृत्युञ्जयाह्वयं लिङ्गं सुरासुरनमस्कृतम् ॥ दीर्घाकारं शुभ्रवर्णं कृष्णबिन्दुसमन्वितम् । नीलकण्ठं समाख्यातं लिङ्गं पूज्यं सुरासुरैः ॥ शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् । त्रिलोचनं महादेवं सर्व्वपापप्रणोदनम् ॥ ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् । कालाग्निरुद्रमाख्यातं सर्व्वसत्त्वैर्निषेवितम् ॥ मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतकम् । श्वेतपद्मसमासीनं चन्द्ररेखाविभूषितम् । प्रलयास्त्रसमायुक्तं त्रिपुरारिसमाह्वयम् ॥ शुभ्राभं पिङ्गलजटं मुण्डमालाधरं परम् । त्रिशूलधरमीशानं लिङ्गं सर्व्वार्थसाधनम् ॥ त्रिशूलडमरुधरं शुभ्ररक्तार्द्धभागतः । अर्द्धनारीश्वराह्वानं सर्व्वदेवैरभीष्टदम् ॥ ईषद्रक्तमयं कान्तं स्थूलं दीर्घं समुज्ज्वलम् । महाकालं समाख्यातं धर्म्मकामार्थमोक्षदम् ॥ एतत्तु कथितं तुभ्यं लिङ्गचिह्नं महेशितुः । एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत् ! ॥” इति बाणलिङ्गचिह्नानि ॥ वीरमित्रोदयधृतकालोत्तरे । “उक्ताङ्कं श्रेयसे योज्यं शीर्षमन्त्रं विवर्ज्जयेत् । यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम् ॥ दण्डाङ्कं सूत्रचिह्नं वा ब्रह्मज्ञानान्वितं मतम् । शशिवर्णं महाकालं नन्दीशं पद्मरागवत् ॥ पद्मरागनिभं सर्व्वं महाभं सिद्धिपूजितम् । मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम् ॥ वसुदैः सेन्द्रयक्षेशगुह्यकैर्यातुधानकैः । नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम् ॥” इति बाणलिङ्गलक्षणम् ॥ वीरमित्रोदयधृतम् । “इत्येतत् लक्षणं प्रोक्तं परीक्षातत्त्वकोविदेः । त्रिःसप्तपञ्चवारं वा तुलासाम्यं न जायते । तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥” तुलाकरणन्तु तण्डुलेन । अपरतुलादिषु तण्डुला यद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्य- मवधार्य्यं लिङ्गञ्चेदधिकं तदोदासीनपूज्यन्त- दिति किंवदन्तीति हेमाद्रिधृतलक्षणकाण्डे ॥ सूतसंहितायान्तु । “सप्तकृत्वस्तुलारूढं वृद्धिमेति न हीयते । बाणलिङ्गमिति ख्यातं शेषं नार्म्मदमुच्यते ॥ त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते । तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥” वीरमित्रोदये । “नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलभ्यते । बाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम् ॥” इति बाणलिङ्गपरीक्षा ॥ बाणशब्दव्युत्पत्तिरपि तत्रैव । “अथ बाणं समाख्यातं यथा वक्ष्ये तथादितः । बाणः सदाशिवो देवो बाणो बाणान्तरोऽपि च ॥ तेन यस्मै कृतं तस्माद्बाणलिङ्गमुदाहृतम् । सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥ कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन च । पङ्कजस्य फलाकारं कुण्डलस्य समाकृति ॥” पङ्कजफलं पद्मबीजम् ॥ पक्वजम्बुफलाकारं कुक्कु- टाण्डसमाकृतीति हेमाद्रिधृतलक्षणकाण्डे पाठः । “भुक्तिमुक्तिप्रदञ्चैव बाणलिङ्गमुदाहृतम् ॥” याज्ञवल्क्यसंहितायां देवीं प्रति शिववाक्यम् । “प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बुफलाकृति । मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् ॥ हंसडिम्बाकृति पुनः स्थापनायां प्रशस्यते । स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले ॥ पुरा बाणासुरेणाहं प्रार्थितो नर्म्मदातटे । अविवासं गिरौ तत्र लिङ्गरूपी महेश्वरः । बाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले ॥ अन्येषां कोटिलिङ्गानां पूजने यत् फलं लभेत् । तत् फलं लभते मर्त्त्यो बाणलिङ्गैकपूजनात् ॥” तथा । “ताम्री वा स्फाटिकी स्वार्णी पाषाणी राजती तथा । वेदिका च प्रकर्त्तव्या तत्र संस्थाप्य पूजयेत् ॥ प्रत्यहं योऽर्च्चयेल्लिङ्गं नार्म्मदं भक्तिभावतः । ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता ॥” इति प्रत्यहबाणलिङ्गपूजाफलम् ॥ सूतसंहितायाम् । “संस्थाप्य श्रीबाणलिङ्गं रत्नकोटिगुणं भवेत् । रसलिङ्गे ततो बाणात् फलं कोटिगुणं स्मृतम् ॥ गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी । सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः ॥” केदारखण्डे । “रत्नधातुमयान्येव लिङ्गानि कथितान्यपि । पवित्राण्येव पूज्यानि सर्व्वकामप्रदानि च ॥ एतेषामपि सर्व्वेषां काश्मीरं हि विशिष्यते । काश्मीरादपि लिङ्गाच्च बाणलिङ्गं विशिष्यते ॥ बाणलिङ्गात् परं नान्यत् पवित्रमिह दृश्यते । ऐहिकामुष्मिकं सर्व्वं पूजाकर्त्तुः प्रयच्छति ॥” इति बाणलिङ्गप्रशंसा ॥ निन्द्यलिङ्गमाह तत्रैव । “कर्कशे वाणलिङ्गे तु पुत्त्रदारक्षयो भवेत् । चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद्ध्रुवम् ॥ एकपार्श्वश्रिते धेनुपुत्त्रदारधनक्षयः । शिरसि स्फुटिते बाणे व्याधिर्मरणमेव च ॥ छिद्रलिङ्गेऽर्च्चिते बाणे विदेशगमनं भवेत् । लिङ्गे च कर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान् । अत्युन्नतिविलाग्रे तु गोधनानां क्षयो भवेत् ॥” हेमाद्रिधृतम् । “तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्ज्जयेत् । अतिस्थूलं चातिकृशं स्वल्पं वा भूषणान्वितम् । गृही विवर्ज्जयेत्तादृक् तद्धि मोक्षार्थिनो हितम् ॥” इति दुष्टबाणलिङ्गलक्षणम् ॥ शुभलिङ्गमाह वीरमित्रोदये । “अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणाम् । लघु वा कपिलं स्थूलं गृही नैवार्च्चयेत् क्वचित् ॥ पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् । तत्सपीठमपीठं वा मन्त्रसंस्कारवर्जितम् । सिद्धिमुक्तिप्रदं लिङ्गं सर्व्वप्रसादपीठगम् ॥” इति शुभबाणलिङ्गलक्षणम् ॥ सूतसंहितायां भैरववाक्यम् । “बाणासुरः पुरा भद्रे ! शिवस्यातीव बल्लभः । जितः क्रोधोऽनुरक्तश्च शिवपूजाविधौ रतः ॥ वह्निज्ञो निपुणश्चैव शिल्पज्ञो लक्षणान्वितः । दिने दिने स्वयं दत्त्वा लिङ्गं स्थाप्य प्रपूजयेत् ॥ एवं वर्षशतं देवि ! दिव्यमानेन पूजयेत् । तदा तद्भक्तिसुलभः प्रत्यक्षः शङ्करो भवेत् ॥ शङ्कर उवाच । तुष्टोऽहं तव हे बाण ! वरं ब्रूहि किमिच्छसि । शङ्करस्य वचः श्रुत्वा बाणो वचनमब्रवीत् ॥ यदि तुष्टोऽसि हीनाय मह्यं त्वं मन्दभागिने । क्लिष्टोऽहं तव देवेश ! लिङ्गं कृत्वा दिने दिने ॥ तत्तल्लक्षणसं सिद्धलक्षणं शास्त्रनिर्म्मितम् । शास्तार्थौ दुर्ल्लभौ देव ! सिद्धश्चार्थश्च दुर्ल्लभः ॥ तस्मात्त्वं यदि मे तुष्टो लिङ्गं देदि सुलक्षणम् । सर्व्वकामकृतार्थञ्च सर्व्वसत्त्वानुकम्पनम् । सर्व्वेषाञ्च हितार्थाय प्रसादं कुरु शङ्कर ! ॥ इत्येवं वचनं तस्य शिवः परमकारणम् । श्रुत्वा कैलासमूद्धानं शङ्करेण विनिर्म्मिताः ॥ लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्द्दश । सिद्धलिङ्गं तदा तत्तत् सर्व्वं सदोदयं स्वयम् ॥ अयोज्यैवं सुसम्पूर्णं बाणस्य च समर्पितम् ॥ अक्षय्यफलदं बाणं स्थाप्यमानञ्च नित्यशः । संपूज्य बाणः सद्भावं कृत्वा प्रणयनन्तदा ॥ तद्भावं स्वपुरं नीत्वा नूनं चिन्तयते शुचिः । अक्षग्यं यदि संसिद्धं स्थाप्यमानं दिने दिने ॥ सत्त्वानां सिद्धिहेत्वर्थं बाणस्थाने सुसंरये । लिङ्गानां कालिकागर्त्ते सञ्चितास्तु त्रिकोटयः ॥ श्रीशैले कोटयस्तिस्रः कोट्येका कन्यकाश्रमे । माहेश्वरे च कोटिस्तु कन्यातीर्थे तु कोटिका ॥ महेन्द्रे चैव नेपाले एकैका कोटिरेव च । बाणार्च्चार्थं कृतं लिङ्गं बाणलिङ्गमतः स्मृतम् ॥ बाणो वा शिव इत्युक्तस्तत्कृतं बाणमुच्यते ॥ तस्मात्तेषु प्रदेशेषु पुण्यस्थानेषु तेषु वा । स्थितं तच्छिवसद्भावं शिवस्याकृतिविग्रहे ॥” हेम्ना तदाकृतिलक्षणसमुच्चयेऽपि । “स्वयम्भुलिङ्गवद्बाणलिङ्गं भुक्त्यै स्वमुक्तये । सहस्रफलमन्यस्माद्यथा स्थापनपूजने ॥ श्रीशैले कालिकागर्त्ते लिङ्गाद्रौ कन्यकाश्रमे । कन्यातीर्थे वने याने महेन्द्रे वा सुरेश्वरे ॥ स्थितानि बाणलिङ्गानि शिवेनैव कृतानि तु ॥” सिद्धान्तशेखरे बाणलिङ्गान्यधिकृत्य । “तदनेकप्रकारं स्यादन्यवर्णमपीठकम् । लक्ष्ममूर्त्तिविहीनञ्च बाणं तत् पृथुलाग्रकम् ॥” बाणलिङ्गेष्वावाहनादि न कर्त्तव्यम् । तदुक्तं भविष्ये । “बाणलिङ्गानि राजेन्द्र ! स्थितानि भुवनत्रये । न प्रतिष्ठा न सं स्कारस्तेषामावाहनं न च ॥” इति योगसारे पञ्चमपरिच्छेदे । “ब्राह्म्ये मुहूर्त्ते चोत्थाय यः स्मरेद्बाणलिङ्गकम् । सर्व्वत्र जयमाप्नोति सत्यं सत्यं महेश्वर ! ॥” अथ बाणलिङ्गध्यानं तत्रैव । ॐ प्रमत्तं शक्तिसंयुक्तं बाणाख्यञ्च महाप्रभम् । कामबाणान्वितं देवं संसारदहनक्षमम् ॥ शृङ्गारादिरसोल्लासं बाणाख्यं परमेश्वरम् । एवं ध्यात्वा बाणलिङ्गं यजेत्तं परमं शिवम् ॥ मनसा गन्धपुष्पाद्यैः संपूज्यास्य मनुं स्मरेत् ॥” तथा । “प्राणायामं ततः कृत्वा बाणलिङ्गन्तु तोषयेत् । तदिष्टदेवयोरैक्यं विभाव्य वाग्भवं जपेत् ॥ ततो जपं समाप्याथ स्तवेनानेन तोषयेत् ॥” अथ स्तवः । “ॐ बाणलिङ्ग महाभाग संसारात्त्राहि मां प्रभो ! । नमस्ते चोग्ररूपाय नमस्ते व्यक्तयोनये ॥ संसाराकारिणे तुभ्यं नमस्ते सूक्ष्मरूपधृक् । प्रमत्ताय महेन्द्राय कालरूपाय वै नमः ॥ दहनाय नमस्तुभ्यं नमस्ते योगकारिणे । भोगिनां भोगकर्त्रे च मोक्षदात्रे नमो नमः ॥ नमः कामाङ्गनाशाय नमः कल्मषहारिणे । नमो विश्वप्रदात्रे च नमो विश्वस्वरूपिणे ॥ बाणस्य वरदात्रे च रावणस्य क्षयाय च । रामस्यानुग्रहार्थाय राज्याय भरतस्य च ॥ मुनीनां यीगदात्रे च राक्षसानां क्षयाय च । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ऐं दाहिकाशक्तियुक्ताय महामायाप्रियाय च । भगप्रियाय सर्व्वाय वैरिणां निग्रहाय च ॥ परित्राणाय योगिनां कौलिकानां प्रियाय च । कुलाङ्गनानां भक्ताय कुलाचाररताय च ॥ कुलभक्ताय योगाय नमो नारायणाय च । मधुपानप्रमत्ताय योगेशाय नमो नमः ॥ कुलनिन्दाप्रणाशाय कौलिकानां सुखाय च । कुलयोगाय निष्ठाय शुद्धाय परमात्मने ॥ परमात्मस्वरूपाय लिङ्गमूलात्मकाय च । सर्व्वेश्वराय सर्व्वाय शिवाय निर्गुणाय च ॥ इत्यतत् परमं गुह्यं बाणलिङ्गस्य शङ्कर ! । यः पठेत् साधकश्रेष्ठो गाणपत्यं लभेत सः ॥ स्तवस्यास्य प्रसादेन योगी योगित्वमाप्नुयात् । राज्यार्थिनां भवेद्राज्यं भोगिनां भोग एव च ॥ साधूनां साधनं देव ! कौलिकानां कुलं भवेत् । यं यं कामयते मन्त्री तं तमाप्नोति लीलया ॥ बाणलिङ्गप्रसादेन सर्व्वमाप्नोति सत्वरम् । किमन्यत् कथयामीह सर्व्वं वेत्सि कुलेश्वर ! । महाभये समुत्पन्ने राजद्वारे कुलेश्वर ! ॥ देशान्तरभये प्राप्ते दस्युचौरादिसङ्कुले । पठनात् स्तवराजस्य न भयं लभते क्वचित् ॥ बाणलिङ्गस्य माहात्म्यं संक्षेपात् कथितं मया । तस्य श्रवणमात्रेण नरो मोक्षमवाप्नुयात् ॥ बाणलिङ्गं सदाराध्यं योगिनां योगसाधने । कौलिकानां कुलाचारे पशूनां शत्रुनिग्रहे ॥ वेदज्ञानां वेदपाठे रोगिणां रोगनाशने । यो यो नाराधयेदेनं सर्व्वं तन्निष्फलं भवेत् ॥” इति श्रीयोगसारे सर्व्वागमोत्तमे पार्व्वतीशिव- संवादे वाणलिङ्गस्तोत्रं समाप्तम् ॥



Correction: