संस्कृत-शब्दकोशः

वातगामिन् वातघ्नी

वातगुल्म

वाचस्पत्यम्

वातगुल्म ||‍ पु० वातेन गुल्म इव । १ वातुले त्रिका० । २ वात- निमित्ते गुल्मरोगभेदे गुल्मशब्दे २६२६ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

वातगुल्मः || पुं, वातुलः । यथा, —
“वातुलो वातगुल्मः स्याच्चारवायुर्निदाघजः । झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥” इति त्रिकाण्डशेषः ॥ (वातेन जातो गुल्मः ।)
रोगविशेषः । (यथा, मार्कण्डेये । ३९ । ५४ । “वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे । यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् ॥” अस्य चिकित्सा यथा, —
“वचायवानीत्रिकटुदशमूलीजलं शतम् । क्वाथश्चोष्णो हितः पाने धान्यनागरकोऽथवा ॥ वातगुल्मेषु सर्व्वेषु ज्वरेषु विषमेषु च । रास्नाद्यपञ्चकं वापि वातगुल्मस्य पाचनम् । शठी सौवर्च्चलं शुण्ठी पाचनं वातगुल्मिने ॥” “नागरं क्रिमिजित् पथ्या त्रिवृता त्रिगुणा- युतम् । चूर्णं गुडान्वितं देयं वातगुल्मविरेचनम् ॥ दन्त्याश्च भाग एकस्तु द्वौ भागौ च हरी- तकी । त्रिवृतायास्त्रिभागः स्यात् शुण्ठ्याश्चत्वार एव च । प्रक्षिप्य सर्व्वमेकत्र सर्व्वतुल्यगुडेन तु ॥ वटकं भक्षयेत् प्रातस्तस्योपरि जलं पिबेत् । क्वथितश्च विवेकश्च वातगुल्मोपशान्तये ॥” इति वातगुल्मचिकित्सा ॥ इति हारीते चिकि- त्सितस्थाने चतुर्थेऽध्याये ॥)
तस्य निदानादिर्गुल्म- शब्दे द्रष्टव्यः ॥



Correction: