संस्कृत-शब्दकोशः

वातगुल्म वातचक्र

वातघ्नी

वाचस्पत्यम्

वातघ्नी ||‍ स्त्री वागं रोगभेदं हन्ति—हन—टक् ङीप् । १ साल- पर्ण्याम् (सालपानि) २ अश्वगन्धायां ३ शिमुडीक्षुपे च राजनि० ।


शब्दकल्पद्रुमः

वातघ्नी || स्त्री (वातं हन्तीति । हन + टक् । ङीप् ।)
शालपर्णी । अश्वगन्धा । शिमृडी- क्षुपः । इति राजनिर्घण्टः ॥



Correction: