संस्कृत-शब्दकोशः

वातपुत्र वातप्रमी

वातपोथ

वाचस्पत्यम्

वातपोथ ||‍ पु० वातं रोगभेदं पुथ्यति हिनस्ति पुथ—अण् । पलाशवृक्षे अमरः ।


शब्दकल्पद्रुमः

वातपोथः || पुं, (वातं वातरोगं पुथ्यति हिन- स्तीति । पुथ + अण् ।)
पलाशवृक्षः । इत्य- मरः । २ । ४ । २९ ॥ (अस्य पर्य्यायो यथा, —
“वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥” इति वैद्यकरत्नमालायाम् ॥)



Correction: