वातरङ्ग
वातरायण
वातरथ
शब्दकल्पद्रुमः
वातरथः || पुं, (वातो वायू रथो यस्य ।)
मेघः । इति त्रिकाण्डशेषः ॥ (वातो रथः प्रापको यस्येति वायुप्रापके, त्रि । यथा, भागवते । ३ । २९ । २० । “यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् । एवं योगरतं चेत आत्मानमविकारि यत् ॥”)