वाचस्पत्यम्
वातरायण || पु० वा—क्विप ततस्तरप् वातरमयनं यस्य णत्वम् । १ उन्मत्ते २ प्रयोजनशून्ये पुरुषे ३ काण्डे ४ करपात्रे ५ कूटे ६ परसंक्रमे मेदि० । ७ सरलद्रुमे च शब्दर० ।
शब्दकल्पद्रुमः
वातरायणः || पुं, (वातेन वायुजनितरोगेण रायति शब्दायते इति । रै शब्दे + ल्युः ।)
उन्मत्तः । निष्प्रयोजनपूरुषः । काण्डम् । करपात्रम् । कूटः । परसंक्रमः । इति मेदिनी । ने, ११६ ॥ सरलद्रुमः । इति शब्दरत्नावली ॥