वाचस्पत्यम्
वातायन || न० वातस्यायनं गतिर्येन । १ गवाक्षं अमरः । वातस्येव शीघ्रमयनं गतिरस्य । अश्वे पुंस्त्री० त्रिका० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वातायनं || क्ली (वातस्य अयनं गमनागमन- मार्गः ।)
गवाक्षः । इत्यमरः ॥ (यथा, आर्य्या- सप्तशत्यास् । ५१० । “लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया । प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥”)
तेन परवाधानिषेधो यथा, —
“परवाधां न कुर्व्वीत जलवातायनादिभिः । कारयित्वा तु कर्म्माणि कारुं पश्चात् न घञ्च- येत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥
शब्दकल्पद्रुमः
वातायनः || पुं, (वातस्येव अयनं गतिर्यस्य ।)
घोटकः । इति त्रिकाण्डशेषः ।