वाचस्पत्यम्
वात्या || स्त्री वातानां समूहः यत् १ वातसमूहे अमरः “वि- तत्य वात्यामयचक्रचंक्रमान् नैष० ।
शब्दकल्पद्रुमः
वात्या || स्त्री (वातानां समूहः । वात + “पाशा- निभ्यो यः ।” ४ । २ । ४९ । इति यः ।)
वात- समूहः । यथा, —
“आसङ्गिनी च वाताली स्यात् वात्या वात- मण्डली ॥” इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ३ । १७ । ५ । “ववौ वायुः सुदुस्पर्शः फेत्कारानीरयन् मुहुः । उन्मूलयन्नगपतीन् वात्यानीको रजोध्वजः ॥”)