वाचस्पत्यम्
वात्सक || न० वत्सानां समूहः वुञ् । वत्ससंघे अमरः ।
शब्दकल्पद्रुमः
वात्सकं || क्ली (वत्सानां समूहः । वत्स + “गोत्रोक्षो- ष्ट्रेति ।” ४ । २ । ३९ । इति वुञ् ।)
वत्स- समूहः । इत्यमरः ॥ (वत्सकस्येदमिति । वत्सक + अण् । कुटजसम्बन्धिनि इन्द्रयवसम्बन्धिनि च त्रि । यथा, सुश्रुते । ६ । ४० । “नागरातिविषामुस्तं पिप्पल्यो वात्सकं फलम् ॥”)