वाचस्पत्यम्
वादित्र || न० वद—णिच्—इत्र । मृदङ्गादिवाद्ये अमरः ।
शब्दकल्पद्रुमः
वादित्रं || क्ली (वाद्यते । वद् + णिच् + “भूवादि- गॄभ्यो णित्रम् ।” उणा० ४ । १७० । इति णित्रम् ।)
वाद्यम् । इत्यमरः ॥ (यथा, भाग- वते । ३ । २४ । ७ । “अवादयंस्तदा व्योम्नि वादित्राणि धनाघनाः ॥” वादिनोऽर्थिनस्त्रायते इति । त्रै + कः । अर्थि- रक्षके, त्रि । यथा, वक्रोक्तिपञ्चाशिकायाम् । २९ । “कृत्वा त्वां पणवञ्चितं नहि मया द्यूतेन न प्रीयते नैवाहं पणवः कृशोदरि चितः शक्यो विधातुं त्वया । किं वादित्रविवक्षयात्र दयिते को वादिनस्त्रायते सूक्त्या निर्जितशैलराजसुत इत्यव्याज्जग- द्धूर्जटिः ॥”)