संस्कृत-शब्दकोशः

वादित्र वादिर

वादिन्

वाचस्पत्यम्

वादिन् ||‍ त्रि० वदति वद—णिनि । १ वक्तरि २ अर्थिनि ३ वादकथाकर्त्तरि विचारस्थले ३ प्रथमपक्षप्रतिपादके च ।


शब्दकल्पद्रुमः

वादी || [न्] त्रि, (वदतीति । वद् + णिनिः ।)
वक्ता । (यथा, मनुः । ७ । ९१ । “न च हन्यात् स्थलारूढं न क्लीवं न कृता- ञ्जलिन् । न मुक्तकेशं नासीनं न तवाश्मीति वादिनम् ॥”)
अर्थी । विवादकर्त्ता । फरियादी इति पारस्य- भाषा ॥ यथा, सभापतेः कर्त्तव्यमाह कात्यायनः । “अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्याद्भृत्याय वेतनम् ॥” वादिनो भाषावादिनः उत्तरवादिनश्च ॥ * ॥
स्वयं विवादाशक्तौ प्रतिनिधिमाह नारदः । “अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥” तयोर्व्वादिप्रतिवादिनोः । कात्यायनः । “मनुष्यमारणे स्तेये परदाराभिमर्षणे । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ पारुष्ये कूटकरणे नृपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम् ॥” भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाह नारदः । “यो न भ्राता पिता वापि न पुत्त्रो न नियोजितः । परार्थवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥” नारदः । “पूर्ब्बवादं परित्यज्य योऽन्यमालम्बते पुनः । वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥” प्रत्यर्थी यदि कश्चित् कालं प्रार्थयते स लभते । अर्थी तु कालं प्रार्थयन् अर्थित्वमेव हन्यादिति तेन कालो न प्रार्थनीयः । तदाह । “प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च । अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ॥” क्वचित् प्रत्यर्थी कालं न लभते । याज्ञवल्क्यः । “साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥” अथ भाषापादः । तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती । “प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥ स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥ यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना । दद्यात्तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥” नारदेनापि । “सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥” तच्छोधनमाह वृ हस्मतिः । “न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” इति व्यवहारतत्त्वम् ॥



Correction: