वाचस्पत्यम्
वानप्रस्य || पु० वाने वनसमूहे प्रतिष्ठति स्था—क । १ मधूकवृक्षे २ पलाशवृक्षे । वनप्रस्थ एव स्वार्थे अण् । “गृहस्थस्तु यदा पश्येत् वलीपलितमात्मनः । पुत्रेषु दारान् नि- क्षिप्य वनं गच्छेत् सहैव वा” इत्युक्ते ३ आश्रमभेदे मेदि० । स च द्विविधः पचमानः अपचमानश्च । तत्र पचमानः अश्मकुट्टः । अपचमानस्तु दन्तालूखलिकः । तस्य धर्मो यथा “भूस्था मूलफलाशित्वं स्वाध्यायस्तप एव च । संविभागो यथान्यायं धर्मोऽयं वनवासिनः । तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च । स्वा- ध्याये चैव निरतो वनस्थस्तापसो मतः । तपसा कर्षितोत्यर्थं यस्तु ध्यानपरो भवेत् । सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः” गारुडे ४९ अ० याज्ञवल्क्य उवाच “वानप्रस्थाश्रमं वक्ष्ये तत् शृण्वन्तु महर्षयः । पुत्रेषु भार्य्यां निःक्षिप्य वनं गच्छेत् सहैव वा । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी । अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा । भृत्यांस्तु तर्पयेत् श्मश्रुजटालोमभृदात्मवान् । दान्तः स्त्रिष वणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान् ध्यान- शीलः सर्वभूतहिते रतः । अह्लो मासस्य षणां वा कुर्य्याद्वान्नपरिग्रहम् । कृत्वा त्यजेदाश्वयुजे नयेत् कालं व्रतादिना । पक्षे मासे तु वाश्नीयाद्दन्तोलूख- लिको भवेत् । चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात् फलादिना । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिले- शयः । आर्द्रवासास्तु हेमन्ते योगाम्यासाद्दिनं नयेत् । १०२ अ० । “जटित्वम ग्नहोत्रित्वंभूशय्याऽजिनधारणम् । वने वासः पयोमूलनीवारफलवृत्तिता । प्रतिषिद्धा- न्निवृत्तिश्च त्रिस्नानं व्रतधारिता । देवतातिथिपूजा च धर्मोऽयं वनवासिनः । २१५ अ० । “एवं गृहाश्रमे स्थित्वा द्वितीयभागमायुषः । वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च । निःक्षिप्य भार्य्यां पुत्रेषु गच्छे- द्वनमथापि । दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः । शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे । गत्वाप्यरण्यं नियमांत्तपः कुर्य्यात् समाहितः । फलमूलानि प- त्राणि नित्यमाहारमाहरेत् । यदाहारो भवेत्तेन पूजयेत् पितृदेवताः । पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् । ग्रामादानीय वाश्नोयादष्टौ प्रासान् समाहितः । जटाश्च विभृयान्नित्यं नखरो- माणि नो त्यजेत् । स्वाध्यायं सर्वदा कुर्य्यात् नियच्छे- द्वाचमन्यतः । अग्निहोत्रन्तु जुहुयात् पञ्च यज्ञान् समा- चरेत् । मुन्यन्नैर्बिविधैर्मेध्यैः शाकमूलफलेन वा । ची- रवासा भवेन्नित्यं स्नायात् स्त्रिषवणं शुचिः । सर्व- भूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः । दर्शेन पौर्ण मासेन यजेत नियतं द्विजाः! । पक्षेष्ट्या श्रावणे चैव चातुर्मास्यानि चाहरेत् । उत्तरायणञ्च क्रमशो दक्षस्या- यनमेव च । वासन्तशारदैर्मध्यैर्मुन्यन्नैः स्वयमा- हरेत् । पुरोडाशं चरुं चेव विधिवन्निर्वपेत् पृथक् । देवत भ्यश्च तद्धुत्वा वन्थं मेध्यतरं हविः । शेषं स- मुपभुञ्जीत लवणञ्ज स्वयंकृतम् । वर्जयेन्मधुमांसादि भौमानि कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मा- तकफलानि च । न फालकृष्टमश्नीयात् उत्सृष्टमपि केनचित् । न ग्रामजातान्यार्त्तो वा पुष्पाणि च फलानि च । श्रावणे चैव विधिना वह्निं परिचरेत् सदा । न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्ममो भवेत् । न नक्तं किञ्चिदश्नीयात् रात्रौ ध्यानपरो भवेत् । जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । ब्रह्म- चारी भवेनित्यं न पत्नीमपि संश्रयेत् । यस्तु पत्न्या वनं गत्वा नैथुनं कामतश्चरेत् । तद्व्रतं तस्य लुप्येत प्रायश्चित्ती भवेत् द्विजः । तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः । न हि वेदाधिकारोऽस्य तत्त्व- मप्येवमेव हि । अधः शयीत सततं सावित्रीजप- तत्परः । शरण्यः सर्वभूतानां संविभागपरो भवेत् । परीवादं मृषावादं निद्रालस्ये च वर्जयेत् । एकाग्नि- रनिकेतः स्यात् प्रोक्षितां मूमिमाश्रयेत् । मृगैः सह चरेद्वासं तैः सहैव च सवसेत् । शिलायां शर्करायां वा शयोत सुसमाहितः । सद्यःप्रक्षालको वा स्यात् मास सञ्चयिकोऽपि वा । षण्मासनिचयो वा स्यात् समानिचय एव वा । नक्तञ्चान्नं समंश्नीयात् दिवा वा- हृत्य शक्तितः । चतुर्थकालिको वा स्यात् स्याद् वा अष्टमकालिकः । चान्द्रायणवियानैर्वा शुक्ले कृष्णे च वर्तयेत् । पक्षे पक्षे समश्नीयात् यवागूकथितां तथा । पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदां । स्वाभाविकैः स्वयंशीणैर्वैखानसमते स्वितः । मूमौ वा परि- वर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम् । स्थानासनाभ्यां विह- रेत् न क्वचिद्धैर्य्यमुत्सृजेत् । ग्रीष्मे पञ्चतपाश्च स्याद् वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्त्तयंस्तपः । उपस्मृश्य त्रिषवणं पितृन् देवांश्च तर्प- येत् । एकपादेन तिष्ठेत मरीचीर्वा पिबेत् सदा । प- ञ्चाग्निघूसपो वा स्वादूष्मपः सोमपोऽथ वा । पयः पिबेत् शुक्लपक्षे कृष्णपक्षे तु गोमयम् । शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर्वा वर्त्तयेत् सदा । योगाभ्यासरतो वा स्याद्रुद्राध्यायी भवेत् सदा । अथर्वशिरसापेतो वेदान्ता- भ्यासतत्परः । यमान् सेवेत सततं नियमाश्चाप्य तन्द्रितः । कृष्णाजिती सोपवीत्तः शुक्लयज्ञोपवीतवान् । अथ वाग्नीन् समारोप्य स्वात्यनि ध्यानतत्परः । चन- ग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वनेवसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा । विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् । विद्यावि- शेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्था- निकञ्चासौ कुर्य्यादनशनन्तथा । अग्निप्रवेशमन्यद् वा ब्रह्मर्पणविधौ स्थितः । ये तु सम्यगिममाश्रम शिव- माश्रयन्त्यशुभपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम्” कूर्मपु० २६ अ०