शब्दकल्पद्रुमः
वानप्रस्थः || पुं, (वनप्रस्थे जातः । अण् ।)
मधूक- वृक्षः । (अस्य पर्य्यायो यथा, —
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेत्रमधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पलाशवृक्षः । (अस्य पर्य्यायो यथा, —
“वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥” इति वैद्यकरत्नमालायाम् ॥)
तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥
पुत्त्र- मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष- यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः । स च द्विविधः । अष्मकुट्टः दन्तोदूखलिकश्च । इति श्रीभागवतमतम् ॥ तस्य धर्म्मो यथा, —
“भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च । संविभागो यथान्यायं धर्म्मोऽयं वनवासिनः ॥ तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥” इति गारुडे ४९ अध्यायः ॥ अपि च । याज्ञवल्क्य उवाच । “वानप्रस्थाश्रमं वक्ष्ये तत् शृण्वन्तु महर्षयः । पुत्त्रेषु भार्य्यां निःक्षिप्य वनं गच्छेत् सहैव वा ॥ वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी । अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा ॥ भृत्यांस्तु तर्पयेत् श्मश्रुजटालोमभृदात्मवान् । दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ॥ स्वाध्यायवान् ध्यानशीलः सर्व्वभूतहिते रतः । अह्नो मासस्य षण्णां वा कुर्य्याद्बान्नपरिग्रहम् ॥ कृत्यं त्यजेदाश्वयुजे नयेत् कालं व्रतादिना । पचे मासे तु वाश्नीयाद्दन्तोलूखलिको भवेत् ॥ चान्द्रायणी स्वपेद्भूमौ कर्म्म कुर्य्यात् फलादिना । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत् ॥” इति गारुडे १०२ अध्यायः ॥ पुनरपि । “जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणम् । वने वासः पयो मूलं नीवारफलवृत्तिता ॥ प्रतिषिद्धान्निवृत्तिश्च त्रिस्नानं व्रतधारिता । देवतातिथिपूजा च धर्म्मोऽयं वनवासिनः ॥” इति गारुडे २१५ अध्यायः ॥ अन्यच्च । “वानप्रस्थाश्रमं धर्म्मं ते वक्ष्यामोऽवधार्य्यताम् । अपत्यसन्ततिं दृष्ट्वा प्राज्ञो देहस्य चायतिम् ॥ वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणम् । तत्रारण्योपभोगेन तपोभिश्चात्मदर्शनम् । भूमौ शय्या ब्रह्मचर्य्यं पितृदेवातिथिक्रिया ॥ होमस्त्रिषवणस्नानं जटावल्कलधारणम् । वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयम् ॥” इति वामने १४ अध्यायः ॥ अपरञ्च । व्यास उवाच । “एवं गृहाश्रमे स्थित्वा द्बितीयं भागमायुषः । वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ निःक्षिप्य भार्य्यां पुत्त्रेषु गच्छेद्बनमथापि वा । दृष्ट्वापत्यस्य चापत्यं जर्ज्जरीकृतविग्रहः ॥ शुक्लपक्षस्य पूर्ब्बाह्णे प्रशस्ते चोत्तरायणे । गत्वाप्यरण्यनियमांस्तपः कुर्य्यात् समाहितः ॥ फलमूलानि पत्राणि नित्यमाहारमाहरेत् । यदाहारो भवेत्तेन पूजयेत् पितृदेवताः ॥ पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्च्चयेत् सुरान् । ग्रामादानीय वाश्नीयादष्टौ ग्रासान् समाहितः ॥ जटाश्च विभृयान्नित्यं नखरोमाणि नो त्यजेत् । स्वाध्यायं सर्व्वदा कुर्य्यात् नियच्छेद्बाचमन्यतः ॥ अग्निहोत्रन्तु जुहुयात् पञ्चयज्ञं समाचरेत् । मुन्यन्नैर्विविधैर्म्मेध्यैः शाकमूलफलेन तु ॥ चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः । सर्व्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ दर्शेन पौर्णमासेन यजेत नियतं द्विजाः । पक्षेष्ट्या श्रावणे चैव चातुर्मास्यानि चाहरेत् ॥ उत्तरायणञ्च क्रमशो दक्षस्यायनमेव च । वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहरेत् ॥ पुरोडाशं गुरूंश्चैव विधिवन्निर्व्वपेत् पृथक् । देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः ॥ शेषं समुपभुञ्जीत लवणञ्च स्वयं कृतम् । वर्ज्जयेन्मधुमांसादि भौमानि करणानि च ॥ भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च । न फालकृष्टमश्नीयात् उत्सृष्टमपि केनचित् ॥ न ग्रामजातान्यार्त्तो वा पुष्पाणि च फलानि च । श्रावणे चैव विधिना वह्निं परिचयेत् सदा ॥ न द्रुह्येत् सर्व्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् । न नक्तं किञ्चिदश्नीयात् रात्रौ ध्यानपरो भवेत् ॥ जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । तद्व्रतं तस्य लुप्येत प्रायश्चित्ती भवेत् द्विजः ॥ तत्र यो जायते गर्भो न संस्पृश्यो द्बिजातिभिः । न हि वेदाधिकारोऽस्य तत्त्वमप्येवमेव हि ॥ अधः शयीत सततं सावित्रीजपतत्परः । शरण्यः सर्व्वभूतानां संविभागपरः सदा ॥ परिवादं मृषावादं निद्रालस्येऽपि वर्ज्जयेत् । एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ मृगैः सह चरेद्बासं तैः सहैव च संवसेत् । शिलायां शर्करायां वा शयीत सुसमाहितः ॥ सद्यः प्रक्षालको वा स्यात् माससञ्चयिकोऽपि वा । षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ नक्तञ्चान्नं समश्नीयात् दिवा वाहृत्य शक्तितः । चतुःकालिकिको वा स्यात् स्याद्वा अष्टम- कालिकः ॥ चान्द्रायणविघानैर्वा शुक्ले कृष्णे च वर्ज्जयेत् । पक्षे पक्षे समश्नीयात् यवागुं क्वथितां तथा ॥ पुष्पमूलफलैर्वापि केवलैर्व्वर्त्तयेत् सदा । स्वाभाविकैः स्वयं शीर्णैर्व्वैखानसमते स्थितः ॥ भूमौ वा परिवर्त्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेत् न क्वचिद्धैर्य्यमुत्सृजेत् ॥ ग्रीष्मे पञ्चतपाश्च स्याद्वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्त्तयंस्तपः ॥ उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् । एकपादेन तिष्ठेत मरीचीर्वा पिबेत् सदा ॥ पञ्चाग्निधूमपो वा स्यादुष्मपः सोमपोऽथवा । पयः पिबेत् शुक्लपक्षे कृष्णपक्षे तु गोमयम् ॥ शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर्वा वर्त्तयेत्सदा । योगाभ्यासरतो वा स्याद्रुद्राध्यायी भवेत् सदा ॥ अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः । यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना सकलेन वा । विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥ अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥ ये तु सम्यगिममाश्रमं शिव- माश्रयन्त्यशिवपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम् ॥” इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥ अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥