संस्कृत-शब्दकोशः

वानप्रस्य वानरप्रिय

वानर

वाचस्पत्यम्

वानर ||‍ पुंस्त्री० वानं वनसम्बन्धिफलादिकं राति गृह्णाति रा—क । स्वनामख्याते पशुभेदे अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

वानरः || पुं, स्त्री, (वा विकल्पितो नरः । यद्बा, वानं वने भवं फलादिकं रातीति । रा + कः ।)
स्वनामख्यातपशुः । वाँदर इति भाषा । तत्प- र्य्यायः । कपिः २ प्लवङ्गः ३ प्लवगः ४ शाखा- मृगः ५ वलीमुखः ६ मर्कटः ७ कीशः ८ वनौकाः ९ । इत्यमरः ॥ मर्कः १० प्लवः ११ प्रवङ्गः १२ प्रवगः १३ प्लवङ्गमः १४ प्रवङ्गमः १५ गोलाङ्गूलः १६ कपित्थास्यः १७ दधिशोणः १८ हरिः १९ तरुमृगः २० नगाटनः २१ झम्पी २२ झम्पारुः २३ कलिप्रियः २४ । इति शब्दरत्नावली ॥ किखिः २५ शालावृकः २६ इति जटाधरः ॥ (एतद्धनने प्रायश्चित्तं यथा, मनुः । ११ । १३६ । “हत्वा हंसं वलाकाञ्च वकं बर्हिणमेव । वानरं श्येनभासौ च स्पर्शयेत् ब्राह्मणाय गाम् ॥”)



Correction: