संस्कृत-शब्दकोशः

वामन वामनेत्र

वामनव्रत

शब्दकल्पद्रुमः

वामनव्रतं || क्ली (वामनदेवताकं व्रतम् ।)
श्रवण- द्वादशीकर्त्तव्यो वामनदेवस्य व्रतविशेषः । अथ श्रीवामनव्रतविधिः । “नत्वा गुरुमनुज्ञाप्य पश्चान्नियममाचरेत् । न हि सिद्धेद्गुरोर्भक्तिं नियमञ्च विना फलम् ॥” नियममन्त्रः । “एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि । भोक्ष्ये श्रीवामनानन्त शरणागतवत्सल ॥” इति ॥ “एकादश्यां रजन्यांवा द्वादश्यां वार्च्चयेत् प्रभुम् । स्वर्णरूप्यमये पात्रे ताम्रवंशमयेऽपि वा ॥ कुण्डिकां स्थापयेत् शार्श्वे छत्रिकापादुकास्तथा । शुभाञ्च वैणवीं यष्टिमक्षसूत्रं पवित्रकम् ॥ पुष्पैर्गन्धैः फलैर्धूपैः प्रदीपैश्चार्च्चयेद्धरिम् । नानाविधैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडोदनैः ॥ जागरं निशि कुर्व्वीत गीतवादित्रनर्त्तनैः । एवमाराध्य देवेशं प्रभाते विमले सति ॥ आदावर्ध्यं प्रदातव्यं पश्चाद्देवं प्रपूजयेत् । नारिकेलेन शुभ्रेण दद्यादर्घ्यञ्च पूर्व्ववत् ॥” तत्र मन्त्रः । “वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च । गृहाणार्ध्यं मया दत्तं वामनाय नमोऽस्तु ते ॥” वामनाय अर्घ्यं नमः । “मत्स्यं कूर्म्मं वराहञ्च नरसिंहञ्च वामनम् । रामं रामञ्च कृष्णञ्च क्रमात् द्वौ बुद्धकल्किनौ ॥ पादयोर्ज्जानुनोर्गुह्ये नाभ्यामुरसि कक्षयोः । भुजयोर्म्मूर्द्ध्नि सर्व्वाङ्गेष्वर्च्चयेदायुधानि च ॥ महापूजां ततः कृत्वा गोमहीं काञ्चनादिकम् । शक्त्याचार्य्याय दातव्यं ब्राह्मणेभ्यश्च मन्त्रतः ॥ ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णाति मन्त्रवित् । ददाति मन्त्रतो ह्येव दाता भक्तिसमन्वितः ॥” तत्र दानमन्त्रः । “वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम् । वामनश्च प्रतिग्राही तेन मे वामने रतिः ॥ वामनः प्रतिगृह्णाति वामनोऽपि ददाति च । वामनस्तारको द्बाभ्यां तेनेदं वामने नमः ॥” इति ॥ “एवं कृत्वा विधानेन भोजनं पृषदाज्यकम् । पूर्व्वं दद्याद्ब्राह्मणेभ्यः पश्चाद्भुञ्जीत बन्धुभिः ॥ यद्वामनपुराणे च यद्भविष्योत्तरे व्रतम् । वामनस्योदितं तस्यानुसाराल्लिखितं त्विदम् ॥” ब्रह्मवैवर्त्ते । “गृहीत्वा नियमं प्रातर्गत्वा नद्योश्च सङ्गमे । सौवर्णं वामनं कृत्वा सौवर्णमाषकेण वा ॥ यथाशक्त्याथ वित्तस्य कुम्भोपरि जगत्पतिम् । स्वर्णपात्रे स्थापयित्वा मन्त्रैरेतैश्च पूजयेत् ॥ ॐ वामनाय नमः पादौ कटिं दामोदराय च । उरू श्रीपतये गुह्यं कामदेवाय पूजयेत् ॥ पूजयेज्जगतां पत्युरुदरं विश्वधारिणे । हृदयं योगनाथाय कण्ठं श्रीपतये नमः ॥ मुखञ्च पङ्कजाक्षाय शिरः सर्व्वात्मने नमः । इत्थं संपूज्य वासोभिराच्छाद्य च जगद्गुरुम् । दद्यात् सुश्रद्धया चार्य्यं नारिकेलादिभिः फलैः ॥ ॐ नमो नमस्ते गोविन्द बुध श्रवणसंज्ञक । अघौघसङ्क्षयं कृत्वा प्रेतमोक्षप्रदो भव ॥” इत्यर्घ्यमन्त्रः ॥ “छत्रोपानहगोदानं दद्यादत्र कमण्डलुम् । विशेषेण द्बिजाग्र्याय वामनः प्रीयतामिति ॥ दध्योदनसमायुक्तां वारिधानीं प्रदापयेत् । पूजयित्वा जगन्नाथं वामनः प्रीयतामिति ॥ यथाशक्त्या च दानानि द्विजाग्र्येभ्यः प्रदापयेत् । कुर्य्याज्जागरणं रात्रौ गीतशास्त्रसमन्वितम् ॥ श्रद्धया परया युक्तो निशामनिमिषेक्षणः । प्रभाते भोजयेद्विप्रान् द्वादश्यां पारणं ततः । कुर्य्यात् स्वयं श्रद्धया तत् सर्व्वं सफलतां व्रजेत् ॥” तन्माहात्म्यञ्च तत्रैव । “एवं कृते तु कालेय व्रतेऽस्मिन् विजयादिने । न दुर्लभतरं किञ्चिदिह लोकेऽथवा परे ॥ फलमस्य व्रतस्योक्तं दत्त्वा पित्रोर्नरोत्तमः । वंशोद्धारकरो मुक्तिं याति पैत्र्यादृणादपि ॥ न पावनतरं किञ्चिदतः परमिहोच्यते । विजयाव्रततुल्यञ्च न परं परिपठ्यते ॥” भविष्योत्तरे च । “समाप्ते तु व्रते तस्मिन् यत् पुण्यं तन्निबोध मे । चतुर्युगानि राजेन्द्र ! सप्तसप्ततिसङ्ख्यया ॥ प्राप्य विष्णुपुरं राजन् क्रीडते कालमक्षयम् । इहागत्य भवेद्राजा प्रतिपक्षभयङ्करः ॥ हस्त्यश्वरथयानानां दाता भोक्ता विमत्सरः । रूपसौभाग्यसम्पन्नो दोर्घायुर्निरुजो भवेत् । पुत्त्रपौत्त्रैः परिवृतो जीवेच्च शरदां शतम् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥



Correction: