संस्कृत-शब्दकोशः

वामाक्षी वामापीडन

वामाचार

वाचस्पत्यम्

वामाचार ||‍ पु० वामः वेदादिविरुद्धः आचारः । तन्त्रोक्ते मद्यमांसादिसेवनरूपे आचरणे । कुलाचारशब्दे दृश्यम्


शब्दकल्पद्रुमः

वामाचारः || पुं, (वामो विपरीतो वेदविरुद्धो वा आचारः ।)
आचारविशेषः । यथा, —
“पञ्चतत्त्वं खपुष्पञ्च पूजयेत् कुलयोषितम् । वामाचारो भवेत्तत्र वामा भूत्वा यजेत् पराम् ॥” इत्याचारभेदतन्त्रम् ॥ तदाचारवतां नरकगमनं यथा, —
“स्वधर्म्मरहिता विप्रा वेदान्यसेविनः सदा । भ्रष्टाचाराश्च वामाञ्च ते यान्ति नरकं ध्रुवम् ॥” इति ब्रह्मवैव्रर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥ तत्पशंसा यथा, —
“चत्वारो देवि वेदाद्याः पशुभावे प्रतिष्ठिताः । वामाद्यास्त्रय आचारा दिव्ये वीरे प्रतिष्ठिताः ॥” इति नित्यातन्त्रम् ॥ “सर्व्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं महत् । वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥ दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् । सिद्धान्तादुत्तमं कौलं कौलात् परतरं नहि ॥” इति कुलार्णवतन्त्रे २ खण्डम् ॥ * ॥
तदाचारयुक्तस्य निषिद्धकर्म्माणि यथा, —
“न दद्यात् ब्राह्मणो मद्यं महादेव्यै कथञ्चन । वामकामो ब्राह्मणो हि मद्यं मांसं न भक्ष- येत् ॥” तदनुकल्पो यथा । कुलचूडामणौ । “यत्रासवमवश्यन्तु ब्राह्मणन्तु विशेषतः । तत्र गुडार्द्रकं दद्यात् ताम्रे वा विसृजेन्मधु ॥ देव्यास्तु दक्षिणे भागे चक्रपार्श्वे निवेदयेत् । एतद्द्रव्यन्तु शूद्रस्य नान्येषान्तु कदाचन ॥ वैश्यस्य माक्षिकं शुद्धं क्षत्त्रियस्य तु साज्यकम् । ब्राह्मणस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु । नारिकेलोदकं कांस्ये सर्व्वेषां द्रव्यशोधनम् ॥” क्षत्त्रियवैश्ययोस्तु गौडी माध्वी च दातव्या तत्र तयोरधिकारात् तदभावे अनुकल्पविधानम् । तथा च । “गोक्षीरं ब्राह्मणो दद्यात् द्रव्यमाज्यञ्च बाहुजः । वैश्यश्च माक्षिकं द्रव्यं शूद्रः पैष्ट्यादिकं पुनः ॥” तेन शूद्रस्य नानुकल्पः ॥ * ॥
कुलार्णवे । “जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षवम् । पौष्पं तरुभवं धान्यसम्भवं तक्रनिर्म्मितम् ॥ सहकारभवं देवि त्रिविधं बहुभेदकम् । मादकं धर्म्मसंभेदात् वर्ज्ज्यमासीत् सुलोचने ॥ ज्ञानेन संस्कृतन्तत्तु महापातकनाशनम् । तद्दाने पातकाभावो दिव्यभावविषयं वा ॥ * ॥
माकन्दफलजं रम्यं द्रव्यं सेव्यं द्बिजातिभिः । अमादकत्वाद्देवेशि ऐक्षवं सेव्यते बुधैः ॥” एतेन क्षत्त्रियादिभिरमादकं द्रव्यं सेव्यं मादकस्य पापहेतुकत्वमुक्तम् । भैरवतन्त्रे । “मद्यं मांसं विना वत्स यत्किञ्चित् कुलसा- धनम् । शक्त्यै दत्त्वा ततः शेषं गुरवे तन्निवेदयेत् । तदनुज्ञां मूर्द्ध्नि कृत्वा शेषमात्मनि योजयेत् ॥” तेन क्षत्त्रियादीनां सुख्यदाने अधिकारः । न पाने । यत्तु । “पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले । उत्थाय च पुनः पीत्वा पुनर्ज्जन्म न विद्यते ॥” वत्तु चयुर्थाश्रमिपरम् ॥ * ॥
तद्द्रव्यकरणे जातिचिन्तां न कुर्य्यात् । “मदिरायां मैथुने च जातिचिन्तां न कार- येत् ॥” एतेषां शोधनस्यावश्यकत्वम् । तथा च । “संशोधनमनाचर्य्य स्त्रीषु मद्येषु साधकः । आचार्य्य सिद्धिह्रानिः स्यात् क्रुद्धा भवति सुन्दरी ॥” मद्येषु मुख्यानुकल्पेषु ॥ * ॥
तथा कुलपूजाया- मस्यावश्यकत्वम् । तथा च । “मधु मांसं विना देवि कुलपूजां समाचरेत् । जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति ॥” * ॥
अथ मांसादिशोधनम् । “मांसन्तु त्रिविधं ज्ञेयं जलखेचरभूचरम् । मांसन्तु त्रिविधं प्रोक्तं देवताप्रीतिकारकम् ॥ मत्स्यञ्च त्रिविधं देवि उत्तमाधममध्यमम् । उत्तमं त्रिविधं मत्स्यं शालपाठीनरोहितम् ॥ प्रवीणं कण्टकैर्हीनं तैलाक्तं वल्कलैर्य्युतम् । देव्याः प्रीतिकरञ्चैव मध्यमं तच्चतुर्व्विधम् । क्षुद्राणि तानि सर्व्वाणि अधमानि विदुर्बुधाः ॥” भूचरमांसञ्च । “गोमेषाश्वलुलापोत्थगोधाजोष्ट्रमृगोद्भवम् । महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम् ॥” मांसाभावे अनुकल्पः । समयाचारे । “लवणार्द्रकपिण्याकतिलगोधूममाषकम् । लशुनञ्च महादेवि मांसप्रतिनिधिः स्मृतः ॥” * ॥
मुद्रा तु द्बिविधा । कुलार्णवे । “कृषरं मण्डलाकारं चन्द्रपद्मनिभं शुभम् । चारु पङ्कमनोहारि शर्कराद्यैश्च पूरितम् । पूजाकाले देवताया मुद्रैषा परिकीर्त्तिता ॥” यामले । “भृष्टधान्यादिकं यावत् चर्व्वणीयं प्रकल्पयेत् । तेषां संज्ञा कृता मुद्रा महामोदप्रदायिनी ॥” तेषां शोधनन्तु स्वतन्त्रतन्त्रे । ॐ प्रतद्विष्णु- रित्यादि मांसम् । त्र्यम्बकमित्यादि मीनम् । तद्बिष्णोरित्यादि मुद्राम् ॥ * ॥
अथ शक्ति- शोधनम् । तत्र भावचूडामणौ । “अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते । तत्कथाश्रवणं चेत् स्यात् तत्तल्पगमनं यदि । स कुलीनः कथं देवि पूजयेत् परमेश्वरीम् ॥” श्रीक्रमे । संशोधनमनाचर्य्येति । कौलिकतन्त्रे । “अभिषेकाद्भवेच्छुद्धिर्म्मन्त्रस्योच्चारबिन्दुभिः । बलाद्वा यत्नतो वापि अभिषेकं समाचरेत् ॥” अभिषेकमन्त्रस्तु । “आदौ वाणीं समुच्चार्य्य त्रिपुरायै समुद्धरेत् । नमःशब्दं समुच्चार्य्य इमां शक्तिं ततो वदेत् ॥ पवित्रीकुरु शब्दान्ते मम सिद्धिं कुरु प्रिये । वह्निजायां समुच्चार्य्य शुद्धिमन्त्रः सुरेश्वरि । तस्याः कर्णेऽभेदबुद्ध्या मायाबीजं समुद्धरेत् ॥” इति शक्तिशोधनम् ॥ * ॥
ततः शोधितद्रव्यमर्ध्ये क्षिपेत् । श्रीक्रमे अर्ध्य- विधौ । “पूर्ब्बशोधितद्रव्यन्तु गुप्तैनैव च संक्षिपेत् ॥” स्वतन्त्रतन्त्रे । “आद्यद्रव्यमर्घ्यपात्रे निःक्षिप्य प्रयतः सुधीः । कुण्डगोलोद्भवं द्रव्यं स्वयम्भुकुसुमं तथा । अर्ध्यं दत्त्वा महेशानि सर्व्वसिद्धीश्वरो भवेत् ॥ सुरया चार्घ्यदानेन योगिनीनां भवेत् प्रियः । महायोगी भवेद्देवि पीठप्रक्षालितैर्ज्जलैः ॥” भैरवतन्त्रे । “पञ्चमात् तु परं नास्ति शाक्तानां सुखमोक्षयोः । केवलैः पञ्चमैर्व्वापि सिद्धो भवति साधकः ॥” तेन पञ्चमकारेण पूजा कर्त्तव्या । इति तन्त्र- सारः ॥



Correction: