वाचस्पत्यम्
वारक || त्रि० वारयति वृ—णिच्—ण्वुल् । १ प्रवृत्तिनिराधके । २ अश्वभेदे ३ अश्वमतिविगेषे श पु० मेदि० । ४ कष्ट- स्थाने ५ ह्रीवेरे न० हेमच० ।
शब्दकल्पद्रुमः
वारकं || क्ली (वारयतीति । वृ + णिच् + ण्वुल् ।)
कष्टस्थानम् । इति हारावली । १२८ ॥ ह्रीवे- रम् । इति हेमचन्द्रः । ४ । २२४ ॥
शब्दकल्पद्रुमः
वारकः || पुं, (वृ + णिच् + ण्वुल् ।)
अश्वविशेषः । इति विश्वः ॥ अश्वगतिः । निषेधके, त्रि । इति मेदिनी । के, १३१ ॥ (यथा, महाभारते । १२ । ३२१ । ३६ । “पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् । तवेह जीवितं यमो न चास्ति तस्य वारकः ॥”)