वाचस्पत्यम्
वारण || न० चु०—वृ—ल्युट् । प्रवृत्तिप्रतिरोधे १ निषेधे मेदि० २ हस्तादिवारणे च जटा० । ३ गजे पुंस्त्री० अमरः स्त्रियां ङीष् । ४ वाणवारे कवचे पुंन० शब्दच० ।
शब्दकल्पद्रुमः
वारणं || क्ली (वृ + णिच् + ल्युट् ।)
प्रतिषेधः । इति मेदिनी । णे, ६६ ॥ (यथा, हरिवंशे । १८० । ४५ ॥ “अस्त्राणां वारणार्थाय वासुदेवोऽप्यमुञ्चत ॥”)
हस्तवारणम् । इति जटाधरः ॥ * ॥
दानकाले वारणनिषेधो यथा, —
“न देवगुरुविप्राणां दीयमानन्तु वारयेत् । न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्ज्जयेत् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥
शब्दकल्पद्रुमः
वारणः || पुं, (वारयति परबलमिति । वृ + ल्युः ।)
हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, कुमारे । ५ । ७० । “इयञ्च तेऽन्या पुरतो षिडम्बना यदूढया वारणराजहार्य्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”)
बाणवारः । इति शब्दरत्नावली ॥ (यथा, महाभारते । ४ । ४० । २ । “वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ॥ सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥” वारि जले रणति चरतीति । वार् + रण् + अच् । जलजाते, त्रि । यथा, हरिवंशे । ३१ । ४८ । “ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥” “वारि जले रणति चरतीति वारणः समुद्रोद्भव इत्यर्थः ।” इति तट्टीकायां नीलकण्ठः ॥)