शब्दकल्पद्रुमः
वारणसी || स्त्री (वरणा च असी च नदीद्वयं तस्य अदूरे भवा । “अदूरभवश्च ।” ४ । २ । ७० । इत्यण् । ङीप् । पृषोदरादित्वात् साधुः ।) वाराणसी । काशी । इति हेमचन्द्रः ॥