शब्दकल्पद्रुमः
वारणीयं || त्रि (वृ + णिच् + अनीयर् ।) वारण- योग्यम् । वृञधातोः ञ्यन्तादनीयप्रत्ययेन निष्पन्नम् ॥ (यथा, कथासरित्सागरे । ५७ । १ । “अवारणीयं रिपुभिर्वारणीयं करं नुमः । हेरम्बस्य ससिन्दूरमसिं दूरमघच्छिदम् ॥”)