संस्कृत-शब्दकोशः

वारिचत्वर वारिचामर

वारिचर

वाचस्पत्यम्

वारिचर ||‍ पुंस्त्री० वारिषु चरति चर—अच् । १ मत्स्ये २ जलचरजन्तुमात्रे त्रि० स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

वारिचरः || पुं, (वारिषु चरतीति । चर + टः ।)
मत्स्यः । इति धनञ्जयः ॥ (यथा, भागवते । ६ । ९ । २३ । “यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथावध्य ततार दुर्गम् । स एव नस्त्वाष्ट्रभयाद्दुरन्तात् त्राताश्रितान् वारिचरोऽपि नूनम् ॥”)
जलचरजन्तुमात्रे, त्रि ॥ (यथा, महाभारते । १२ । २४७ । १८ । “यथा वारिचरः पक्षी न लिप्यति जले चरन् । विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥”)



Correction: