वाचस्पत्यम्
वारिद || न० वारि ददाति दा—क । १ मेघे २ मुस्तके च अमरः । ३ जलदातरि त्रि० ४ वालायां स्त्री शब्दच० ।
शब्दकल्पद्रुमः
वारिदं || क्ली वाला । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
वारिदः || पुं, (वारि ददातीति । दा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
मेघः । (यथा, मृच्छटिकनाटके । ५ अङ्के । “विद्युद्बारिदगर्ज्जितैः सचकिता तद्दर्शना- काङ्क्षिणी । पादौ नूपुरलग्नकर्द्दमधरौ प्रक्षालयन्ती स्थिता ॥”)
मुस्तकः । इत्यमरः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने । ३८ अध्याये । “रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः । त्रायमाणामृतारक्तापञ्चमूलविभीतकैः ॥” वारिदातरि, त्रि । यथा, मनौ । ४ । २२९ । “वारिदस्तृप्तिमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्त- मम् ॥”)