शब्दकल्पद्रुमः
वारिपथिकः || त्रि (वारिपथेन गच्छतीति । वारि- पथ + “उत्तरपथेनाहूतञ्च ।” ५ । १ । ७७ । इत्यत्र “आहूतप्रकरणे वारिजङ्गलकान्तार- पूर्ब्बादुपसंख्यानम् ।” इति वार्त्तिकसूत्रात् ठक् ।)
जलपथगामी । वारिपथं गच्छतीत्यर्थे ष्णिक- प्रत्ययेन निष्पन्नः ॥ (वारिपथेन आहूतम् । इति काशिका ॥)