वाचस्पत्यम्
वारिपर्णी || स्त्री वारिणि पर्णान्यस्याः ङीप् । कुम्भिकायाम् (पाना) अमरः ।
शब्दकल्पद्रुमः
वारिपर्णी || स्त्री (वारिणि पर्णाण्यस्या इति ॥ वारिपर्ण + “पाककर्णपर्णपुष्पेति ।” ४ । १ । ६४ । इति ङीष् ।)
कुम्भिका । इत्यमरः । १ । १० । ३८ ॥ अस्या गुणाः । “वारिपर्णी हिमा तिक्ता मृद्वी स्वाद्बी सरा पटुः । दोषत्रयकरी रूक्षा शोणितज्वरशोषकृत् ॥” इति राजवल्लभः ॥