वाचस्पत्यम्
वारुण || न० वरुणस्येदमण् । १ जले २ वरुणसम्बन्धिनि त्रि० । स देवताऽस्य अण् । २ वरुणदेवताके त्रि० । ४ शततारके न० ।
शब्दकल्पद्रुमः
वारुणं || क्ली (वरुणो देवतास्येति । वरुण + अण् ।)
जलम् । इति राजनिर्घण्टः ॥ (शत- भिषानक्षत्रम् । यथा, तिथितत्त्वे । “वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥” उपपुराणविशेषः । यथा, देवीभागवते । १ । ३ । १५ । “वारुणं कालिकाख्यञ्च शाम्बं नन्दिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिबिस्तरम् ॥” पुं, भारतस्य खण्डविशेषः । यथा, विष्णुपुराणे । २ । ३ । ६ । “इन्द्रद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ बारुणः ॥”)
वरुणसम्बन्धिनि, त्रि । यथा, —
“पश्चिमे पुष्पदन्तञ्च वारुणञ्च प्रशस्यते । उत्तरेण तु भल्लाटं सौम्यञ्च शुभदं भवेत् ॥ उडुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः । प्लक्षश्चोत्तरतो धन्यो विपरीतास्त्वसिद्ध्वये ॥” इति मात्स्ये २२९ अध्यायः ॥ (यथा च महाभारते । ३ । १०२ । १ । “समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् । कालेयाः संप्रवर्त्तन्ते त्रैलोक्यस्य विनाशने ॥”)