संस्कृत-शब्दकोशः

वारुणकर्म्म वारुणी

वारुणि

वाचस्पत्यम्

वारुणि ||‍ पु० वरुणस्यापत्यम् इञ् । अगस्त्वमुनौ त्रिका० ।


शब्दकल्पद्रुमः

वारुणिः || पुं, (वरुणस्यापत्यं पुमान् । वरुण + इञ् ।)
अगस्त्यमुनिः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । १०५ । १ । “समुद्रं स समासाद्य वारुणिर्भगवानृषिः । उवाच सहितान् देवानृषींश्चैव समागतान् ॥ अहं लोकहितार्थं वै पिबामि वरुणालयम् ॥” वशिष्ठः । यथा, महाभारते । १ । ९९ । ७ । “स वारुणिस्तपस्तेपे तस्मिन् भरतसत्तम ! । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥” विनतापुत्त्रभेदः । यथा, महाभारते । १ । ६५ । ४० । “तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्त्तिताः ॥” भृगुः । यथा, शतपथब्राह्मणे । ११ । ६ । १ । “भृगुर्ह वै वारुणिः । वरुणं पितरं विद्ययाति- मेने । तद्ध वरुणो विदाञ्चकार ॥”)



Correction: