वाचस्पत्यम्
वारुणी || स्त्री वरुणो देवतास्य वरुणस्येदं वा अच् ङीप् । १ पश्चिमलिशि २ मदिरायाम् हेमच० । ३ शतभिघातारायां । ४ गण्डदूर्वायाम् ५ दूर्वायां मेदि० । ६ इन्द्रवारुण्यां राजनि० ७ वरुणस्त्रियां ८ शतभिषानक्षत्रयुक्तचैत्रकृष्णत्रयोदस्यां च स्कन्दपुराणे । “वारुणेन समायुक्ता मधौ कृष्णा त्रयो- दशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा” वारुणं शतभिषा । “शनिवारसमायुक्ता सा महा- वारुणी स्मृता । गङ्गायां यदि लभ्येत कोटि सूर्य्यग्रहैः समा । शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत्” “अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मासपक्ष- तिथ्युल्लेखानन्तरं महावारुणीमहामहावारुण्यावुल्लेख- नीये श्राद्धे पार्वणादिसंज्ञाल्लेखवत् पौर्णमास्यमावा- स्ययोः पक्षाल्लेखवच्च ति० त० । अत्र वारघटितत्वात् सावन- दिनमेव ग्राह्यम् “सृतकानां परिच्छेदो दिनमासाब्दपा- स्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तितः” सृ० सि० उक्तेः । कोर्मपाद्मयोः “द्वौ तिथ्यन्तावेकवारे यत्र स्मात् स दिनक्षयः” । बशिष्ठः “एकस्मिन् सावने त्वह्नि तिथीनां त्रितवं यदा । तदा दिनलयः प्रोक्तस्तत्र साहस्रिकं फलम्” इत्येतयोर्वचनयोरेकवाक्यतयापि तथावगम्यते । रखापूर्वपरयोरित्यादिकन्तु ज्योतिः- शास्त्रोक्तं कालहोरादिज्ञानार्थमिति । अत्र “संक्रा- न्तिषु व्यतीपाते ग्रहणं चन्द्रसूर्य्ययोः । पुष्ये स्नात्वा च गङ्गायां कुलकोटीः समुद्धरेत्” । इति ब्रह्मा- ण्डपुराणात् ग्रहणमात्र त्रिकोटिकुलोद्धरणवि- धानात् ततोऽधिकेषु वारुण्यादिषूत्तरोत्तरगुरुषु महा- महावारुण्यदिषु यत् त्रिकोटिकुलोद्धरणमुक्तं तदुद्ध- रणगततारतम्येनाविरुद्धम् “यं यं क्रतुमधीते च तस्य तस्याप्नुयात् फलम्” याज्ञवल्क्योक्ताध्ययनात् यथा तत्तद्याराकरणेऽधिकफलम् अतएव शिष्टाना- मादरोऽपि तथेति । नचात्र “स्नानं कुर्वन्ति याना- र्य्यश्चन्द्रे शतभिषां गते । सप्तजन्म भवेयुस्ता दुर्भगा- विधवाध्रुवम् । “त्रयोदश्यां तृतीयायां दशम्याञ्च विशेषतः । शद्रविट्क्षत्रियाः स्नानं नाचरेयुः कथ- ञ्चन” इति प्रचेतोजावालिवचनाभ्यां स्त्रीणां शूद्रा- दीनाञ्च स्नाननिषेध इति वाच्यम् “भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः । तन्निषिद्धं दशम्यादौ नित्य नैमित्तिके न तु” इति हेमाद्रिधृतवचनेन रागप्राप्त- स्नान एव निषेधात् नक्षत्रेऽपि तथाकल्पनात् । अत्र त्रयोदश्यां पूर्णायां पूवाह्णातरकाले नक्षत्रादिसत्त्वे परदिने पूर्वाह्ण तिथिनक्षत्रलाभेऽपि पूर्वदिन एव स्नानम् । तथा च कालमाधवीये नारदीयम आदि- त्योदयवलाया आरभ्य षष्टिनाडिकाः । तिथिस्तु सा हि शुद्धा स्यात् सार्वतिथ्या ह्ययं विधिः” अत्र पूर्वतिथेः शुद्धत्वाभिधानातु ततपरतिथेरशुद्धत्वाभिधानं प्रतीयते । रात्रावपि वारुण्यादिषु गङ्गायां स्नानम् । “दिवा रात्रौ च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः । स्नात्वाऽश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः” । गृहस्थरत्नाकरे देवलः “महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम् । तस्यां स्नानं न कर्त्तव्यं काम्यनैमित्तिकादृते” । अत्र सहा- निशायामपि काम्यनैमित्तिकं स्नानं प्रतीयते” । ति० त० रघु०
शब्दकल्पद्रुमः
वारुणी || स्त्री (वरुणस्येयम् । “तस्येदम् ।” ४ । ३ । १२० । इत्यण् । ङीप् ।)
सुरा । (यथा, मनौ । ११ । १४७ । “अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्ब्बमनिर्द्देश्यं प्राणान्तिकमिति स्थितिः ॥” मदिराधिष्ठात्री देवी । यथा, विष्णुपुराणे । १ । ९ । ९३ । “किमेतदिति सिद्धानां दिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना ॥” “वारुणी मदिराधिष्ठात्री देवी ।” इति तट्टी- कायां श्रीधरस्वामी ॥ वरुणपत्नी । वारुणी- वल्लभशब्ददर्शनात् ॥ यथा, महाभारते । २ । ९ । ६ । “यस्यामास्ते स वरुणो वारुण्या च समन्वितः । दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः ॥” नदीविशेषः । यथा, गो० रामायणे । २ । ७० । १२ । “पूर्ब्बेण वारुणीं तीर्त्वा कुरुक्षेत्रे सरस्वतीम् । सरांसि च प्रफुल्लानि नदीश्च विमलोदकाः ॥”)
पश्चिमदिक् । इत्यमरः । १ । ३ । ५१ ॥ (यथा, नैषधचरिते । ४ । ६० । “वद विधुन्तुदमालि मदीरितै- स्त्यजसि किं द्विजराजधिया विधुम् । किमु दिवं पुनरेति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥” विद्याविशेषः । यथा, तैत्तिरीयोपनिषदि । ३ तृतीयवल्ल्याम् ६ षष्ठानुवाके । “आनन्देन जातानि जीवन्ति । आनन्दं प्रयत्यभिसंविश- न्तीति । सैषा भार्गवी वारुणी विद्या ॥” अश्वानां छायाविशेषः । यथा, अश्ववैद्यके । ३ । १७३ । “शुद्धस्फटिकसङ्काशा सुस्निग्धा चैव वारुणी ॥”)
शतभिषानक्षत्रम् । इति हेमचन्द्रः ॥ गण्ड- दूर्व्वा । इति मेदिनी । णे, ६८ ॥ इन्द्रवारुणी । दूर्व्वा । इति राजनिर्घण्टः ॥ शतभिषानक्षत्र- युक्तचैत्रकृष्णत्रयोदशी । यथा, स्कन्दपुराणे । “वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥” वारुणं शतभिषा । “शनिवारसमायुक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्य्यग्रहैः समा ॥ शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मास- पक्षतिथ्युल्लेखानन्तरं महावारुणीमहामहा- वारुण्यावुल्लेखनीये । तेन चैत्रे मासि कृष्ण- पक्षे त्रयोदश्यां तिथौ महावारुण्यां महा- महावारुण्यां यथायथं प्रयोज्यम् । न चात्र । “स्नानं कुर्व्वन्ति या नार्य्यश्चन्द्रे शतभिषां गते । सप्तजन्म भवेयुस्ता दुर्भगा विधवा ध्रुवम् ॥” इति ॥ “त्रयोदश्यां तृतीयायां दशम्याञ्च विशेषतः । शूद्रविट्क्षत्त्रियाः स्नानं नाचरेयुः कथञ्चन ॥” इति प्रचेतोजावालिवचनाभ्यां स्त्रीणां शूद्रादी- नाञ्च स्नाननिषेध इति वाच्यम् । “भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः । तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके न तु ॥” इति हेमाद्रिधृतवचनेन रागप्राप्तस्नान एव निषेधात् नक्षत्रेऽपि तथा कल्पनात् । अत्र त्रयोदश्यां पूर्णायां पूर्ब्बाह्णेतरकाले नक्षत्रादि- सत्त्वे परदिने पूर्ब्बाह्णे तिथिनक्षत्रलाभेऽपि पूर्ब्ब- दिन एव स्नानम् । रात्रावपि वारुण्यादिषु गङ्गायां स्नानम् । “दिवा रात्रौ च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः । स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः ॥” इति ब्रह्माण्डपुराणे सामान्यतः प्रतिप्रसवात् । इति तिथ्यादितत्त्वम् ॥ * ॥
वरुणप्रेरितवृन्दा- वनस्थकदम्बतरुकोटरनिःसृतबलदेवपीतवारुणी । यथा, — पराशर उवाच । “वने विचरतस्तस्य सह गोपैर्महात्मनः । मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ निष्पादितोरुकार्य्यस्य कार्य्येणोर्व्वीविचारिणः । उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ अभीष्टा सर्व्वदा यस्य मदिरे त्वं महौजसः । अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् । वृन्दावनवनोत्पन्नकदम्बतरुकोटरे ॥ विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् । आघ्राय मदिरातर्षमवापाथ पुरातनम् ॥ ततः कदम्बात् सहसा मद्यधारां स लाङ्गली । पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ पपौ च गोपगोपीभिः समवेतो मुदान्वितः । उपगीयमानो ललितं गीतवाद्यविशारदैः ॥” इति विष्णुपुराणे ५ अंशे २५ अध्यायः ॥