वाचस्पत्यम्
वार्त्त || न० वृत्ति + अण् । १ आरोग्ये २ असारे ३ निरामये ४ वृत्तिशीले च त्रि० अमरः । ५ दुर्गायां “पश्वादिपाललाद्देवी कृषिकर्मान्तकारणात् । वर्त्तनाद्धारणाद्वापि वार्त्ता सैव प्रगीयते” देवीपु० । ६ वृत्तौ कृषिकर्मणि ७ जनश्रुतौ अमरः । ८ वृत्तान्ते ९ वातिङ्गणे मेदि० । १० कालकर्त्तृके भूतनाशने च स्त्री “अस्मिन् महामोहमये कटाहे सूर्य्याग्निना रात्रिदिनेन्धनेन । मासर्तुदर्वीपरिघट्टनेन मूतानि कालः पचतीति वार्त्ता” इति भा० व० यक्षप्रश्नः ।
शब्दकल्पद्रुमः
वार्त्तं || क्ली असारम् । आरोग्यम् । इत्यमरः । ३ । ३ । ७५ ॥
शब्दकल्पद्रुमः
वार्त्तः || त्रि (वृत्तिरस्त्यस्येति । “प्रज्ञाश्रद्धार्च्चा- वृत्तिभ्यो णः ।” ५ । २ । १०१ । इति णः ।)
निरामयः । इत्यमरः । २ । ६ । ५७ ॥ वृत्ति- शाली । इत्यजयपालः ॥