वाचस्पत्यम्
वार्द्धीनस || पुंस्त्री० वारि जलानि धयति धा—क्विप् वार्द्धीः नासा नासिका यस्य नसादेशः । १ गण्डके त्रिका० स्त्रियां ङीष । “त्रिप्लवं त्विन्द्रिवक्षीणं श्वेतं वृद्धमजा- पतिम् । वार्द्धीनसः प्राच्यतऽसौ हव्ये कव्ये च सत्कृतः” इत्युक्ते २ छागभेदे “वार्द्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी” सनुः । ३ पक्षिभेदे च “रक्तपादो रक्तशिरा रक्तचञ्चुविह- ङ्गमः । कृष्णो वर्णेन च तथा पक्षी वार्द्धीनसो मतः मा- र्क० पु० अयं आद्धाङ्गम् । वलिदानाङ्गं कलिका पु० ६६ अ० उक्तो यथा “नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः । वार्द्धीनसः स्यात् पक्षीशो मम विष्णोरतिप्रियः” । पृषो० वार्ध्रीणमोऽप्यत्र ।