संस्कृत-शब्दकोशः

वार्द्धीनस वार्द्धुषिन्

वार्द्धुषि

वाचस्पत्यम्

वार्द्धुषि ||‍ पु० वृद्ध्या जीवति इण् वृद्धेर्वृधुषिभावः । वृद्ध्याजीवे अमरः । स्वार्थे क तत्रैव । “समार्घं धान्यमादाय महार्घं यः प्रयच्छति । स र्व वार्द्धुषिको नाम हव्यकव्यवाह- ष्कृतः” स्मृतिः । वृद्धिश्च वृद्धिशब्दे वक्ष्यते तत्रोक्तानयमा- तिक्रमेण अनापदि स्वयमन्यद्वारा वा स्वाच्छ्यन्द्येन यो व्यवहरति तस्यैव प्रायश्चित्तम् आपदि तु स्वयं करणे नियमातिक्रमे च न दोषः” प्रा० वि० ।



Correction: