शब्दकल्पद्रुमः
वार्द्धकं || क्ली (वृद्धाणां समूहः । “गोत्रोक्षोष्ट्रोर- भ्रेति ।” ४ । २ । ३९ । इत्यत्र “वृद्धाच्चेति ।” काशिकोक्तेः वुञ् ।)
वृद्धसंघातः । (वृद्धस्य भावः कर्म्म वेति । मनोज्ञादित्वात् वुञ् ।)
वृद्धस्य भावः । वृद्धस्य कर्म्म । इति मेदिनी । के, ५६ ॥ (यथा, मार्कण्डेयपुराणे । १०९ । २४ । “बाल्ये बालक्रिया पूर्व्वं तद्वत् कौमारके च या । यौवने चापि या योग्या वार्द्धके वनसंश्रया ॥” त्रि, वृद्धः । यथा, नैषधे । १ । ७७ । “फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते । स्थितैः समादाय महर्षिवार्द्धकाद् वने तदातिथ्यमशिक्षि शाखिभिः ॥” “महर्षीणां मुनिश्रेष्ठानां मध्ये यो वार्द्धको वृद्ध- स्तस्मात् । त्रिषु स्याद्बार्द्धको वृद्धे क्लीवं तद्भाव- संघयोरिति वलः ।” इति तट्टीका ॥)