शब्दकल्पद्रुमः
वार्द्धक्यं || क्ली (वार्द्धकमेव । वार्द्धक + चतुर्वणादि- त्वात् स्वार्थे ष्यञ् ।)
बृद्धावस्था । तत्पर्य्यायः । वार्द्धकम् २ वृद्धत्वम् ३ स्थाविरम् ४ । इति जटाधरः ॥ (यथा, महाभारते । ९ । ५२ । ८ । “आत्मानं मन्यमानापि कृतकृत्यं श्रमान्विता । वार्द्धक्येन च राजेन्द्र ! तपसा चैव कर्षिता ॥”)