वार्मुच्
वार्य
वार्म्मुच्
शब्दकल्पद्रुमः
वार्म्मुक् || [च्] पुं, (वाः वारि मुञ्चतीति । मुच् + क्विप् ।)
मेघः । इति शब्दरत्नावली ॥ (यथा, भागवते । १० । २४ । ९ । “तं तात ! वयमन्ये च वार्म्मुचां पतिमीश्वरम् । द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ॥”)