वाचस्पत्यम्
वार्षिक || त्रि० वर्षे वर्षासु वा भवः ठञ् । १ वत्सरभवे २ वर्षा- कालभवे च । ३ त्रायमाणलतायां न० मेदि० तत्रार्थे स्त्री राजनि० स्त्रीत्वे ङीप् । ४ वर्षे वर्षे कर्त्तव्यायां पूजायां स्त्री ङीप् । “शरत्काले महापूजा क्रियते या च वा- र्षिकी” देवीमा० ।
शब्दकल्पद्रुमः
वार्षिकं || क्ली (वर्षासु जातमिति । वर्षा + “वर्षाभ्य- ष्ठक् ।” ४ । ३ । १८ । इति ठक् ।)
त्राय- माणा । इति मेदिनी । के, १५६ ॥
शब्दकल्पद्रुमः
वार्षिकः || त्रि (वर्षे भवः । वर्ष + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।)
वर्षभवः । वात्स- रिकः । इति मेदिनी । के, १५६ ॥ (यथा, भागवते । ११ । ११ । ३७ । “यात्रावलिविधानञ्च सर्व्ववार्षिकपर्व्वसु ॥”)
यथाच । “शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥” इति मार्कण्डेयपुराणम् ॥ वर्षाकालोद्भवश्च ॥ (यथा, अध्यात्मरामायणे । ४ । ४ । १ । “तत्र वार्षिकदिनानि राघवो लीलया मनिगुहासु सञ्चरन् । पक्वमूलफलभोगतोषितो लक्ष्मणेन सहितोऽवसत् सुखम् ॥”)