शब्दकल्पद्रुमः
वार्षिकी || स्त्री (वर्षासु भवा । वर्ष + “वर्षाभ्य- ष्टक् ।” ४ । ३ । १८ । इति ठक् । ङीष् ।) त्राय- माणा । इति राजनिर्घण्टः ॥