वाचस्पत्यम्
वार्हस्पत्य || न० वृहस्पतिना प्रोक्तमधीते पत्यन्तत्वात् यक् । १ चार्वाके रत्नमा० । तेन पोकं तस्येदं वा यक् । २ नीतिशास्त्रे ३ वौद्धागमे च । ४ वृहस्पतिसम्बन्धनि त्रि० । ५ वर्षभेदे गुरुवर्षशब्दे २६१९ पृ० दृश्यम स देवताऽस्य यक् । ४ तद्देव ताके त्रि० ६ पुष्यनक्षत्रे न० शैषिकोऽण् । वार्ह- स्पत ततसम्बन्धिनि त्रि० स्त्रियां ङीप् ।