संस्कृत-शब्दकोशः

वार्हस्पत्य वालक

वाल

शब्दकल्पद्रुमः

वालः is an alternate of बालः. बा(वा)लः || पुं, (बलति मस्तकं रक्षति संवृणोतीति वा । बल + णः ।)
शिरोभवाच्छादनविशेषः । चुल इति भाषा । तत्पर्य्यायः । चिकुरः २ कचः ३ केशः ४ कुन्तलः ५ कुञ्जरः ६ शिरोरुहः ७ शिरसिरुट् ८ शिरोरुट् ९ शिरजः १० । इति शब्दरत्नावली ॥ घोटकशिशुः । तत्पर्य्यायः । किशोरः २ । इत्यमरः ॥ अश्वबालधिः । करि- बालधिः । नारिकेलः । इति मेदिनी । ले, ३९ ॥ पञ्चवर्षीयहस्ती । यथा, —
“पञ्चवर्षो गजो बालः स्यात् पोतो दशवर्षकः ॥” इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १० । ६ । “यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् । आदाय बालगजलील इवेक्षुयष्टिं सज्यीकृतं नृप ! विकृष्य बभञ्ज मध्ये ॥”)
पुच्छः । इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । ४८ । “लज्जा तिरश्चां यदि चेतसि स्या- दसंशयं पर्व्वतराजपुत्त्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्य्यु- र्बालप्रियत्वं शिथिलं चमर्य्यः ॥”)
मत्स्यविशेषः । इति शब्दचन्द्रिका ॥



Correction: