वाचस्पत्यम्
वाल्मीकि is an alternate of वाल्मीक. वाल्मीक(कि) || पु० वल्मीके भवः अण् इञ् वा । भार्गवे प्राचेतसे मुनिभेदे जटा० ।
शब्दकल्पद्रुमः
वाल्मीकिः || पुं, (वल्मीके भवः । वल्मीक + इञ् ।)
भृगुवंशीयमुनिविशेषः । इति त्रिकाण्डशेषः ॥ यथा, —
“रावणान्तकरो राजा रघूणां वंशवर्द्धनः । वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः ॥” इति मात्स्ये १२ अध्यायः ॥ (यथा वा काव्यादर्शभूमिकायाम् । “जाते जगति वाल्मीकौ कविरित्यभिधाभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥”)