संस्कृत-शब्दकोशः

वावृत्त वाशा

वाश

वाचस्पत्यम्

वाश ||‍ तिरश्चां शब्दे अक० आह्वाने सक० दि० आत्म० सेट् ऋदित् चङि न ह्रस्वः । वाश्यते अवाशिष्ट । “उद्वाश्य- मानः पितरम्” भट्टिः ।


शब्दकल्पद्रुमः

वाश || य ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-आह्वाने सक०-सेट् ।)
शब्द इह तिरश्चामेव । तिरश्चां वाशितं रुत- मित्यमरात् । य ङ, वाश्यते पक्षी । ऋ, अव- वाशत् । उद्वाश्यमानः पितरं स राममिति भट्टौ । अनेकार्थत्वादाह्वानार्थः । वासितं सुरभीकृते । ज्ञानमात्रे खगारावे वासितं वस्त्र- वेष्टिते । इति विश्वप्रकाशाद्दन्त्यान्तोऽयमपीति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वांशः || त्रि वंशसम्बन्धी । वंशस्यायमित्यर्थेष्ण(अण्)
प्रत्ययेन निष्पन्नः ॥



Correction: