संस्कृत-शब्दकोशः

वासका वासत

वासगृह

वाचस्पत्यम्

वासगृह ||‍ न० वासयोग्यं गृहम शाक० । मध्यगृहे अमरः ।


शब्दकल्पद्रुमः

वासगृहं || क्ली (वासाय गृहम् ।)
गर्भागारम् । इत्यमरः ॥ “द्वे गृहमध्यभागे शयनगृहे च गृहान्तर्गृहे इत्येके निर्व्वातत्वात् गर्भ इवागारं गर्भागारम् । वासाय गृहं वासगृहम् । वास- वेश्मादि चात्र ।” इति भरतः ॥ (यथा, बृहत्- संहितायाम् । ५३ । ७० । “वासगृहाणि च विन्द्याद् विप्रादीनामुदग्दिगाद्यानि । विशताञ्च यथा भवनम् भवन्ति तान्येव दक्षिणतः ॥”)



Correction: