शब्दकल्पद्रुमः
वासन्तकं || त्रि वसन्तसम्बन्धि । वसन्तस्येदमित्यर्थे कण्प्रत्ययेन निष्पन्नम् ॥ (वसन्ते उप्तम् । वसन्त + “ग्रीष्मवसन्तादन्यतरस्याम् ।” ४ । ३ । ४६ । इति वुञ् । (वसन्तोप्ते, त्रि ॥ इति सिद्धान्त- कौमुदी ॥)