संस्कृत-शब्दकोशः

वासन्तक वासन्ती

वासन्तिक

शब्दकल्पद्रुमः

वासन्तिकः || त्रि (वसन्तमधीते वेद वेति । वसन्त + “वसन्तादिभ्यष्ठक् ।” ४ । २ । ६३ । इति ठक् ।)
विदूषकः यथा । वासन्तिकः केलिकिलो वैहा- सिको विदूषकः । इति हेमचन्द्रः ॥ (वसन्त- स्येदमिदि । “वसन्तात् च ।” ४ । ३ । २० । इति ठञ् । वसन्तसम्बन्धिनि, त्रि । यथा, भागवते । ५ । ९ । ५ । “सप्रणवशिरस्त्रिपदां सावित्रीं ग्रैष्मवासन्ति- कान् मासानधीयानमप्यसमवेतरूपं ग्राहया- मास ॥”)



Correction: