वाचस्पत्यम्
वासर || पुंन० । वस—अरण् । १ दिवसे अमरः । २ नागभेदे पु० मेदि० ।
शब्दकल्पद्रुमः
वासरः || पुं क्ली, (वासयतीति । वस् + णिच् + “अर्त्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ।” उणा० ३ । १३२ । इति अरः ।)
दिवसः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ४ । २३ । “प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ॥”)
नागप्रभेदे, पुं । इति मेदिनी । रे, २१३ ॥