वाचस्पत्यम्
वासव || पु० वसुरेव स्वार्थेऽण् वसूनि सन्त्यस्य अण् वा । १ इन्द्रे वसोरपत्यं स्त्री अण् ङीप् । २ व्यासमातरि मत्स्यगन्धायाम् स्त्री हेमच० । ३ धनिष्ठानक्षत्रे न० ज्यो
शब्दकल्पद्रुमः
वासवः || पुं, (वसुरेव । प्रज्ञाद्यण् ।)
इन्द्रः । इत्य- मरः ॥ (यथा, महाभारते । ३ । ४३ । २२ । “सहस्राक्षनियोगात् स पार्थः शक्रासनं गतः । अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥”)