शब्दकल्पद्रुमः
वासवी || स्त्री (वसोरपत्यं स्त्री । वसु + अण् । ङीप् ।)
व्यासमाता । यथा, —
“व्यासस्याम्बा सत्यवती वासवी गन्धकालिका । योजनगन्धा दासेयी शीलं कायनजीवसूः ॥” इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । ६३ । ७० । “दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः । सङ्गमं मम कल्याणि ! कुरुष्वेत्यभ्यभाषत ॥”)