वाचस्पत्यम्
वास्तोष्पति || पु० ६ त० अलुक् समा० । १ इन्द्रं, अमरः २ वास्तु- भूमिपती च ।
शब्दकल्पद्रुमः
वास्तोष्पतिः || पुं, (वास्तोर्गृहक्षेत्रस्य पतिरधि- ष्ठाता । “वास्तोष्पतिगृहमेधाच्छ च ।” इति निपातनात् अलुक् षत्वञ्च । यद्वा, “वास्त्वन्त- रिक्षं तस्य पतिः पाता विभुत्वेन ।” इति निघण्टुटीकायां देवराजयज्वा । ५ । ४ । ९ ।)
इन्द्रः । इत्यमरः ॥ (देवतामात्रम् । यथा, भागवते । १० । ५० । ५३ । “वास्तोष्पतीनाञ्च गृहैर्वलभीभिश्च निर्म्मितम् । चातुर्व्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥” “किञ्च नगरगृहादौ वास्तोष्पतीनां देवानाञ्च गृहैर्वलभीभिश्चन्द्रमालिकाभिश्च निर्म्मितम् ॥” इति तट्टीकायां स्वामी ॥ गृहपालयितरि, त्रि । यथा, ऋग्वेदे । ७ । ५४ । १ । “वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवानः ॥” “हे वास्तोष्पते गृहस्य पालयितर्देव त्वं अस्मान् त्वदीयान् स्तोतॄनिति प्रतिजानीहि ।” इति तद्भाष्ये सायणः ॥)