संस्कृत-शब्दकोशः

वाहद्विषत् वाहश्रेष्ठ

वाहन

वाचस्पत्यम्

वाहन ||‍ न० वाहयति वह—णिच्—ल्यु । रथादौ याने । देवभेदे वाहनभेदो यथा “विष्णुब्रह्मशिवैर्देवैर्ध्रियते सा जगन्मयी । सितप्रेतो महादेवो ब्रह्मा लोहितपङ्कजः । हरिर्हरिस्तु विज्ञेयो बाहनानि महौजसः । स्वमूर्त्त्या वाहनत्वन्तु तेषां यष्मान्न युज्यते । तस्मान्मूर्त्त्यन्तरं कृत्वा वाहनत्व गतास्त्रवः । यस्मिन् यस्मिन् महामाया प्री- णाति सततं शिवा । तेन तेनैव रूपेण आमनान्यभवन् त्रयः” कालिकापु० ५७ अ० । देवदानवानां वाहनानि यथा । पुलस्त्य उवा च “शृणुष्व कथयिष्यामि सर्वेषा- मपि नारद! । वाहनानि समासेन एकैकस्यानुपूर्वशः । रुद्रहस्ततलोत्पन्नं महाकायं महागजम् । श्वेतकर्णं महावीर्य्यं देवराजस्य वाहनम् । राद्रौजःसम्भवं भीमं कृष्णवर्णं मनोजवम् । पौण्ड्रणं नाम महिशं धर्मराजस्य नारद! । रुद्रमानससम्भूतं श्यामं जलधि- सम्भवम् । शिशुमारं दिव्यगतं वाहनं वरुणस्य च । रौदं शकटचक्राक्षं शैलाकारनरोत्तमम् । अम्बिका- प्रादसम्भूतं वाहनं धनदस्य तु । एकादशानां रुद्राणां वाहनानि महामुने । गन्धर्वाश्च महावीर्य्या भुजगेन्द्राः सुदारुणाः । श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च । रथं चन्द्रमसश्चार्द्धसहस्रहंसवाहनम् । हयोढ रथवाहाश्च आदित्या मुनिसत्तम! । कुञ्जरस्थाश्च वसंवो यक्षाश्च नरवाहनाः । किन्नराभुजगारुढा हयारुढौ तथाश्विनौ । शारङ्गाधिष्ठिता ब्रह्मत्! मरुतो घोर- दर्शनाः । शुकारूढाश्च कवयो गन्घर्वाश्च पदातिनः । आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः । सन्नह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः” वामनपु० ९ अ० । निघण्टौ देवभेदे वाहननामभेदा उक्तास्तत्र दृश्याः ।


शब्दकल्पद्रुमः

वाहनं || क्ली (वहत्यनेनेति । वह + करणे ल्युट् । “वाहनमाहितात् ।” ८ । ४ । ८ । इत्यत्र “वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।” इति भट्टोजिदीक्षितोक्त्या निपातनात् वृद्धिः ।)
हस्त्यश्वरथदोलादिः । तत्पर्य्यायः । यानम् २ युग्यम् ३ पत्रम् ४ धोरणम् ५ । इत्यमरः । २ । ८ । ५८ ॥ * ॥
(यथा, रघुः । ११ । १० । “पूर्व्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥”)
देव्या वाहनानि यथा, —
“विष्णब्रह्मशिवैर्द्देवैर्ध्रियते सा जगन्मयी ॥ सितप्रेतो महादेवो ब्रह्मा लोहितपङ्कजः । हरिर्हरिस्तु विज्ञेयो वाहनानि महौजसः ॥ स्वमूर्त्त्या वाहनत्वन्तु तेषां यस्मान्न युज्यते । तस्मान्मूर्त्त्यन्तरं कृत्वा वाहनत्वं गतास्त्रयः ॥ यस्मिन् यस्मिन्महामाया प्रीणाति सततं शिवा । तेन तेनैव रूपेण आसनान्यभवन् त्रयः ॥” इति कालिकापुराणे ५७ अध्यायः ॥ * ॥
देवदानवानां वाहनानि यथा, — पुलस्त्य उवाच । “शृणुष्व कथयिष्यामि सर्व्वेषामपि नारद । वाहनानि समासेन एकैकस्यानुपूर्व्वशः ॥ रुद्रहस्ततलोत्पन्नं महाकायं महागजम् । श्वेतवर्णं महावीर्य्यं देवराजस्य वाहनम् ॥ रौद्रौजःसम्भवं भीमं कृष्णवर्णं मनोजवम् । पौण्ड्रकं नाम महिषं धर्म्मराजस्य नारद ॥ रुद्रमानस-सम्भूतं श्यामं जलधिसंज्ञकम् । शिशुमारं दिव्यगतिं वाहनं वरुणस्य च ॥ रौद्रं शकटचक्राक्षं शैलाकारनरोत्तमम् । अम्बिकापादसम्भू तं वाहनं धनदस्य तु ॥ एकादशानां रुद्राणां वाहनानि महामुने । गन्धर्व्वाश्च महावीर्य्या भुजगेन्द्राः सुदारुणाः ॥ श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च । रथं चन्द्रमसश्चार्द्धं सहस्रहंसवाहनम् ॥ हयोढरथवाहाश्च आदित्या मुनिसत्तम । कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः ॥ किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ । शारङ्गाधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः ॥ शुकारूढाश्च कवयो गन्धर्व्वाश्च पदातिनः । आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः ॥ सन्नह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः ॥ * ॥
नारद उवाच । गदितानि सुरादीनां वाहनानि महामुने । दैत्यानां वाहनान्येवं यथावद्वक्तुमर्हसि ॥ पुलस्त्य उवाच । शृणुष्व दानवादीनां वाहनानि द्विजोत्तम । कथयिष्यामि तत्त्वेन यथावत् श्रोतुमर्हसि ॥ अन्धकस्य रथो युक्तः श्रेष्ठः परमवाजिभिः । कृष्णवर्णः सहस्रारस्त्रिनल्वपरिमाणवान् ॥ प्रह्नादस्य रथो दिव्यः श्बेतवर्णैर्हयोत्तमैः । उह्यमानस्तथाष्टाभिः श्वेतरुक्ममयः शुभः ॥ विरोचनस्य तु गजः कुम्भस्य तु तुरङ्गमः । जम्भस्य तु रथो दिव्यो हयैः काञ्चनसन्निभैः ॥ शङ्कुकर्णस्य तरगो हयग्रीवस्य कुञ्जरः । रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः । शम्बरस्य विमानोऽभूदायः शङ्कोर्मृगाधिपः ॥” इति श्रीवामनपुराणे ९ अध्यायः ॥ (वाहयतीति । वह + स्वार्थे णिच् + ल्युः । वाहके, त्रि । यथा, कथासरित्सागरे । १२४ । २२० — २२२ । “स वाहनानां नागानां शीकराम्बुमहाभरैः । शूकरप्रेयसीपृष्ठे स्वयं चक्रे कृषिं नृपः ॥” “नागानां वाहना मेघाः शूकरप्रेयसी क्षितिः । विष्णोः शूकररूपस्य सा हि प्रियतमोच्यते ॥ तस्यां मेघाम्बुभिर्धान्यमुत्पन्नं चेत् किमद्भुतम् ॥”)



Correction: